SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६१ [२ द्वितीयः प्रपाठकः] मैन्युपनिषत् । प्रजापतिर्वा एकोऽग्रेऽतिष्ठत्स नारमतैकः सोत्मानमभिध्यात्वा वहीः प्रजा असृजत . प्रजापति० असृजतेति । प्रनापतिर्हिरण्यगभः । वैशब्दस्तस्य शाखान्तरोक्तविशेषस्मारकः । तथा हि-"सदेव सोम्येदमग्र आसीत्" "तद्धेदं तीव्याकृतमासीत्" "आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिश्रुतिषु जगतः प्रागवस्थां सदात्मादिशब्दनिर्दिष्टपरमात्माभेदेनाऽऽम्नाय ततो नामरूपाभ्यां भूतसूक्ष्मक्रमेण जगद्व्याकरणं श्रूयते- "तस्माद्वा एतस्मादात्मन आकाशः संभूतः" "तत्तेजोऽसृजत" "तन्नामरूपाभ्यामेव व्याक्रियत" इत्यादि । तथा चाऽऽकाशादिक्रमेण तन्मात्राणि भूतसूक्ष्माणि सष्ट्वा तेभ्यश्च तदवस्थेभ्यः प्राणान्तःकरणकर्मज्ञानेन्द्रियप्रकारं लिङ्गमुत्पाद्य तदनुप्रविश्य हिरण्यगर्भसंज्ञां प्राप्य जीवरूपतामापन्नोऽनन्तरं खोपाधिभूतभूतसूक्ष्माण्यपञ्चीकृतानि पञ्चीकृतानि संपाद्य तेभ्यो ब्रह्माण्डान्तं समष्टिव्यष्टिरूपं जगत्सृष्ट्वा तेष्वनुप्रविश्य पश्य शृण्वन्मन्वानो विहरन्नचेतनं चेतयमानः सुकृतदुष्कृतकर्माऽऽचरंस्तत्फले सुखदुःखे भुनानः प्रेयप्रेरकभावमापद्यमानं क्षेत्रज्ञः संसारी विज्ञानात्मा पुरुष इति च तत्र तत्र व्यपदिश्यते । एवं शाखान्तरोक्तविशेषं वैशब्देन स्मारयित्वा शरीरसृष्टिं प्राजापत्यां प्राह प्रजापति सच्छब्दवाच्यादज्ञानशबलात्प्रथममुत्पन्न एकोऽसहायोऽग्रे चराचरसृष्टेः पूर्वमतिष्ठदासीत् । तथा च श्रुत्यन्तरम्-"आत्मैवेदमग्र आसीत्पुरुषविधः" इति । स एकोऽसहायत्वान्नारमत रमणं प्रीतिविशेष न प्राप । सोल्मानं स प्रजापतिरात्मानं स्वमेवाभिध्यात्वाऽहं बहु स्यां प्रजायेयेत्याभिमुख्येनाऽऽलोच्य बह्वी ना प्रना देवतिर्यक्ष्मनुष्यलक्षणा असृजत सृष्टवान्संकल्पमात्रेणैवानेकरूपोऽभवदित्यर्थः । एवं सृष्टिमुक्त्वा सृष्टेषु कार्येष्वनुप्रवेशप्रसङ्गमाह ता अश्मेवापबुद्धा अप्राणाः स्थाणुरिव तिष्ठमाना अपश्यत् ता अश्मेव० अपश्यदिति । एवं सृष्टास्ताः प्रजा अपश्यदृष्टवान् । कीदृशीः । अश्मेव पाषाणवदचेतनाः। अप्रबुद्धा बुद्धिरहिता अन्तःकरणशून्या इति यावत् । अप्राणाः प्राणवर्जिताः । अत एव स्थाणुरिव काष्ठमिव तिष्ठमाना अवतिष्ठमाना इति । एतेन संघातचेतनतावादशङ्का परिहृता । ततः किं कृतवानिति तदाह .स नारमंत सोऽमन्यतैतासां प्रतिबोधनायाभ्यन्तरं विविशामि ।। १ क. तिकोऽ । २ क. भः । वाश। ३ क. 'तसू' । ४ क. प्रापत् । ५ के. अत्रेणाने । ६ ख. मतै । ७ ख. शामीति । स । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy