________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३६० . रामतीर्थविरचितदीपिकासमेता-[ २ द्वितीयः प्रपाठकः ] उक्तं निमित्तविशेषमनूद्य प्रश्नस्योत्तरमाह
अथ यो ह खलु वावतस्यै सोऽशोऽयं यश्वेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः संकल्पाध्यवसायाभिमानलिङ्गः प्रजापतिविश्वाख्यश्चेतने
नेदं शरीरं चेतनवत्पतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति । अथ यो ह खलु० वैषोऽप्यस्येतीति । अथैवं स्थिते सति यो ह खलु वाव य एवैतस्याऽऽत्मनो यथा व्याख्यातोऽशः सोऽयं विश्वाख्य इति संबन्धः । कोऽसौ यश्चेतामात्रैश्चेतनामात्रश्चित्स्वभाव इति यावत् । प्रतिपुरुषः प्रतिबिम्ब आदर्श इव मुखमप्पात्र इव सूर्यादिरन्तःकरणादौ प्रतिफलितः। अत एव क्षेत्रज्ञः क्षेत्रं शरीरं तदहमस्मीति जानातीति क्षेत्रज्ञः । तथाचोक्तं भगवता
"इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः” इति ॥
. (गी० अ० १३) तस्य क्षेत्रज्ञत्वे लिङ्गमाह-संकल्पेति । सामान्यत इदमिति विषयस्वरूपमात्रकल्पनं संकल्पः । अध्यवसायस्तत्र निश्चयरूपा वृत्तिः । अभिमानोऽहं ममेदमिति स्वस्वामिभावोल्लेखः । तथा च संकल्पाध्यवसायाभिमानैर्देहविषयैरस्त्यस्मिन्क्षेत्रज्ञोऽन्य इति गम्यत इत्यर्थः । एवं भूतो यः समष्टिदेहं विराडाख्यमभिमन्यते स प्रजापतिर्ब्रह्मा वैश्वानर इति चाऽऽख्यायते वेदान्तेषु । यः पुनः स एव व्यष्टिशरीरमण्डजादिचतुविधमभिमन्यते स विश्व इत्याख्यायते । तेनैवंविधेन चेतनेन स्वानुप्रवेशमात्रेणेदं शरीरं चेतनायुक्तमिव प्रतिष्ठापितं प्रचोदयिता वाऽप्यन्तर्यामिरूपेणैष एवास्येति सर्वमुक्तमित्यर्थः । नन्वसङ्गस्याऽऽत्मनः कूटस्थस्य कथं शरीरसंबन्धनिबन्धनं क्षेत्रज्ञत्वं कथं वाऽस्य शरीरे चेतयितृत्वेन प्रेरयितृत्वेन चावस्थितिरिति विस्मयमापन्ना इव पुनः पृच्छन्ति
ते होचुर्भगवन्यद्यनेनेदृशेनानिष्ठेनैतद्विधमिदं चेतनवत्मतिष्ठापितं
प्रचोदयिता वैषोऽस्य कथमिति तान्होवाचेति ॥ ५ ॥ ते हो वाचेतीति । व्याख्यातार्थोऽयं ग्रन्थः ॥ ५॥
नात्र विस्मयः कार्यो यतः स्वयमेव स्वमायाशक्तिमधिष्ठाय निर्माय चराचरं तत्रानुप्रविष्ट इति सर्वोपनिषत्सूख़ुष्यमाणत्वादित्यभिप्रेत्य सर्वशाखाप्रत्ययन्यायेन देहसृष्टिप्रकारं तावदाह
१ ख. स्य३ सोंऽ । २ क. त्रश्चि । ३ क. °ति पूर्व' । ४ ख. नाणिष्ठे ।
For Private And Personal