________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५९
[ २ द्वितीयः प्रपाठकः ] मैञ्युपनिषत् । शुक्त्यादौ रजतादिवत्स्वात्मन्यध्यस्तस्यान्यत्राभावादधिष्ठानपारतत्र्यात्तद्धर्मकमिवाचेतनमपि चेतनमिवानधिष्ठितमप्यधिष्ठितमिवावभासते शरीरादि न वस्तुत इत्यभिसंबन्धायोक्तं स्वरूपमन्द्य तस्याविद्याकृतकार्योपाधिप्रवेशनिमित्तमिदं धर्मद्वयमित्युत्तरमाह प्रजापतिः
स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः । स वा एष० अदृश्य इति । स वै पूर्वोक्त एष विद्वत्प्रत्यक्ष आत्मा सूक्ष्मोऽविषयः, यतोऽग्राह्यः कर्मेन्द्रियागोचरोऽदृश्यो ज्ञानेन्द्रियागोचरो नापि मनोगोचरः । "अप्राप्य मनसा सह" इति श्रुतेः। एतेनानुमानादिगोचरत्वमपि निरस्तमुक्तलक्षणात्मस्वरूपव्याप्तलिङ्गादिसंबन्धानिरूपणादतो निरतिशयमस्य सौक्ष्म्यं सिद्धमित्यर्थः । यदि सर्वप्रमाणागोचरः कथमस्य सद्भावस्तत्राऽऽह
पुरुषसंज्ञोऽबुद्धिपूर्वमिहैवाऽऽवर्ततेऽशेनेति पुरुषसंज्ञ इति । पूर्षु शेत इति वा पूर्णमनेन सर्वमिति वा पूर्वमास्त इति वा पुरुषः। अतः पुरुषसंज्ञया प्रसिद्धः स्वतःसिद्धसद्भाव इत्यर्थः । तथा च श्रुतयः- “स वा अयं पुरुषः सर्वासु पूर्षु परिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतम् " इति । "वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्" इति “पूर्वमेवाहमिहाऽऽसमिति तत्पुरुषस्य पुरुषत्वम्” इति च । स एवंविध आत्माऽसङ्गस्वभावोऽप्यबुद्धिपूर्वमसंकल्पितमेवेहैव देहादिसंघात एव आवर्तत आसमन्तादापादतलमस्तकमहमित्यभिमन्यमानो वर्ततेऽशेनैकदेशेन संघाताविविक्तस्तदनुगतः स्वचैतन्याभासोंऽश इत्युच्यते न पुनर्निरवयवस्य विभोरात्मनः स्वाभाविकोंऽश एकदेशलक्षणः संभवत्यतस्तेनांशेनैवेहाऽऽ. वर्तते । इतिशब्दः प्रकारवचनः । ईदृशो वर्तत इत्यर्थः ।
स्वमायावेशवशाचित्सदानन्दानन्तब्रह्मरूपता स्वाभाविकी विस्मृत्याहं मनुष्य इत्याद्यतद्रूपमेवाऽऽत्मानमकस्मान्मन्यत इत्यस्मिन्नर्थे दृष्टान्तमाह
सुप्तस्येवाबुद्धिपूर्व विबोध एवमिति । सुप्तस्येव० एवमिति । इवशब्दो यथाशब्दार्थः । यथा सुप्तस्य सुषुप्तिमुपगतस्य "सता सौम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति" (छा०६) इति श्रुत्यन्तरे ब्रह्मसंपत्तिर्हि सुषुप्तावात्मनोऽधिगता। तथा सुप्तस्य यथाऽबुद्धिपूर्वकमकस्माद्विबोधो विषयविशेषदर्शनावस्थापत्तिरेवमिहाऽऽवर्तनमस्य । इतीति स्थितिरित्यर्थः ।
१ स. सू३क्ष्मोऽ । १ ग. मेवाऽऽस्त । ३ क. 'स्तेनैवेहानुव । ४ क. °च्चिदा। ५ ख. ग. विबोधा। ६ क. सोम्य।
For Private And Personal