SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 7 ३५६ रामतीर्थविरचितदीपिकासमेता - [२ द्वितीयः प्रपाठकः ] तथाऽपि स्वरूपतस्त्वव्ययमानोऽप्रचलितस्वभावः कूटस्थ इति यावत् । तमो विषयानभिव्यक्तिलक्षणं प्रणुदत्यपसारयति विषयेषु स्वचैतन्यकर्माऽऽपादयंस्तेषामज्ञाततामपनयतीत्यर्थः । एवं यो व्यवहरन्नेतद्देहमवष्टभ्याऽऽस्त एष आत्मेत्यादि व्याख्यातम् । तथा चमत्रवर्णः - "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" इति । एवं सोपाधिमात्मानमुपाधिद्वारोपलक्ष्य तमेव पुनरुपाधिविलापनेन निरुपाधिकं शुद्धमात्मानमुपस्थाप्य तस्य ब्रह्मरूपत्वमुपदेष्टुं प्रवर्तते - अथ य एष संप्रसाद इत्यादिना । व्याख्यानं समानम् || २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir एवं संक्षेपत आत्मतत्त्वमुपदिश्य शाकायन्यः पुनर्विस्तरेण तस्याऽऽत्मनः स्वभावमुपदेष्टुकामः स्वाचार्यद्वारा स्वस्यैतद्विद्याप्राप्तिं दर्शयति । संक्षेपविस्तराभ्यां हि निरूप्य माणोऽर्थः सुखावबोधो दृढनिश्चयश्चाऽऽपद्यत इत्यत आह I अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रिणाssख्याताऽहं ते कथयिष्यामीति । अथ खलु • कथयिष्यामीतीति । अथशब्द उत्तरौरम्भार्थः । हे राजन्बृहद्रथ यदिदमात्मतत्त्वज्ञानं मया तुभ्यमुक्तमियं खलु ब्रह्मविद्या सर्वशाखोपनिषत्प्रतिपाद्या वा विद्या । वा शब्दश्चार्थे । सा चेयमेव नान्याऽस्माकं भगवता मैत्रिणा गुरुर्णीऽऽख्याता कथिता तामेवाहं कथयिष्यामि । तेन मह्यं येन प्रकारेणोक्तं तेनैव प्रकारेण महदाख्यानेन निरूपयिष्यामीत्यर्थः । अयमाशयः संघातविलक्षणस्तत्साक्ष्यात्मैव ब्रह्मेति यदिदमे - तच्छाखाप्रवक्तुमैत्रेराचार्यस्य मतं तत्सर्वशाखासंमतं सर्वब्रह्मवित्संमतं च न पुनस्ताकिकसमयवत्परस्परविगीतमतो दृढविश्वासः कर्तव्य इति । किं तन्महतां पूर्ववृत्तमाख्यानं मैत्रिणोक्तमित्यभिमुखीभवन्तं शिष्यं प्रत्याख्यायिकामाह अथापहतपाप्मानस्तिग्मतेजसा ऊर्ध्वरेतसो वालखिल्या इति श्रूयन्ते । अथाह • श्रूयन्त इति । अथेनीमिदं शृणु । किम् । अपहतपाप्मानस्तपोनिर्धूतकल्मषाः । तिग्मतेजसस्ती तेजसोऽत्यूर्जितप्रभावाः । तेजसा इत्येवंविध एतच्छाखासङ्केतपाठश्छान्दसँः सर्वत्र । ऊर्ध्वरेतसोऽस्खलितब्रह्मचर्या जितेन्द्रिया इति यावत् । वालखिल्या वालखिल्यसंज्ञा इत्येवंविधा ऋषयः श्रूयन्ते श्रुतिस्मृतिपुराणेध्वित्यर्थः । किं तत इत्यपेक्षायामाह - १ क. 'ह्मस्वरू' । २ ग. 'दिशशाका । ३ क. 'रार्थः । ४ क. 'णा व्याख्या' । ५ क. दान शृ । ६क. 'जस ऊर्ज' । ७ क. सः । ऊ । ८ क. सोऽशकलि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy