SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ २ द्वितीयः प्रपाठकः] मैत्र्युपनिषत् । ३५७ अथ क्रतुं प्रजापतिमब्रुवन् । अथ क्रतुं • अब्रुवन्निति । अथ कदाचित्ते क्रतुनामानं प्रनापतिं गत्वाऽब्रुवन्नुक्तवन्त इत्यर्थः । किमब्रुवन्निति तदाह भगवञ्शकटमिवाचेतनमिदं शरीरं कस्यैष खल्वीदृशो महिमाऽतीन्द्रियभूतस्य येनैतद्विधमेतचेतनवत्मतिष्ठापितं प्रचोदयिता वाऽस्य यद्भगवन्वेत्सि तदस्माकं बहीति तान्होवाचेति ॥ ३ ॥ भगवन्० होवाचेतीति । हे भगवन्प्रजापत इदं शरीरं सावयवत्वाद्रूपादिमत्त्वाच शकटमिवान इवाचेतनं जडमेवमपि चेतेनावदिव शकटविलक्षणमनुभूयतेऽतः पृच्छामो येनैताद्विधमतेच्छरीरं चेतनवत्प्रतिष्ठापितं स एष महिमा माहात्म्यं कस्य खल्वतीन्द्रियभूतस्यादृश्यस्याग्राह्यस्य सत ईदृश एतादृशः को वाऽस्य चेतयितेति प्रश्नार्थः । किंच प्रचोदयिता वाऽस्य शरीरस्य शाकटिक इव शकटस्य प्रेरयिता वा कोऽस्ति । यदत्र चेतयितृत्वेन प्रेरयितृत्वेनानुगतं वेत्सि हे भगवंस्तदस्माकं ब्रूहीत्यब्रुवन्निति पूर्वेणान्वयः । तान्होवाचेति श्रुतिवचनम् । तान्प्रति प्रजापति?वाचोक्तवानुत्तरमित्यर्थः ॥ ३ ॥ यो ह खलु वावोपरिस्थः श्रूयते यो ह० श्रूयत इति। ह स्फुटम् ।खलुशब्दो वाक्यालंकारार्थः । वावशब्दोऽवधारणे। य एवोपरिस्थः सर्वस्य प्रपञ्चस्योपरि निष्प्रपञ्चे स्वरूपेऽवस्थितः । यद्वा वावशब्दो भिन्नक्रमः।यो ह खलूपरिस्थित एवं प्रपञ्चान्तरनुगम्यमानोऽपि न तस्मिन्स्थितः किंत्वसङ्गतया प्रपश्चातीते स्वस्वरूपे स्थित एव सन्स्वचैतन्याभासेन प्रपञ्चमवभासयंस्तत्र स्थित इव भवति न वस्तुतस्तत्रास्ति । तस्य स्वात्मन्यध्यस्तस्य मिथ्यात्वादित्यभिप्रायः । तथा च श्रूयते"वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुत्यन्तर इत्यर्थः । प्रपञ्चानुगतस्यापि तद्धर्मास्पृष्टत्वेन तत उपरिस्थत्वे दृष्टान्तमाह गुणेष्विवोर्ध्वरेतसः स वा एष शुद्धः पूतः शून्यः शान्तोऽ प्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः। गुणेष्विवोर्ध्वरेतस इति । यथोर्ध्वरेतसो योगिनो गुणेषु विषयेषु वर्तमाना अपि तत्रासङ्गितया तेभ्य ऊर्ध्वा एव तथाऽयमपीत्यर्थः । अथवा यो ह खलूपरिस्थोऽध्यक्षतया स्थित एव गुणेषु गुणकार्येषु देहादिष्विव श्रूयत इति योजना । तथा च श्रुतिः--'यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि ग. ति । भ । २ क. 'तनवदिह श। ३ क. ति तत्प्रश्ना। ४ क. व सौं। ५ ख. 'णेष्वेवो । ६ ख. 'श्वतः स्व। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy