________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ २ द्वितीयः प्रपाठकः ] मैन्युपनिषत् । नीमेतस्यापि सूक्ष्मस्य यत्र तमोमात्रेण कारणात्मनि लयो लीनप्रपञ्चश्च यत्स्वभावोऽवतिष्ठते स मुख्य आत्मा साक्षादेव तमात्मेति गृहाणेत्याह
अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २॥ अथ य० ब्रह्मतीति । अथ स्वप्नदर्शनेहेतुकर्मक्षये सति पुनर्जाग्रन्निमित्तकर्मानुद्भवे य एष स्वप्नविषयसाक्षी संप्रसादः सम्यक्प्रसीदत्यत्रेति संप्रसादः सुषुप्तिस्तदवस्थ आ. त्मेह संप्रसाद उच्यते । स्थूलसूक्ष्मोपाधिद्वयविलापनेन तत्संपर्कजनितकालुष्यविलयात्सं. प्रसन्नः सुषुप्तौ पुरुषो भवति । स संप्रसादोऽस्मात्पूर्वगृहीताच्छरीरादेहद्वयात्समुत्थाय सम्यगुत्थाय तद्विस्मृत्य तदभिमानं परित्यज्येति यावत् । परं प्रविलीनप्रपञ्चकारणं ज्योतिः प्रकाशमात्रस्वभावमुपसंपद्य तदेकात्मभावेन संपद्य स्वेनासाधारणेन रूपेणाभिनिष्पद्यते' जीवावस्थामभिभूय स्वस्वरूपमुपगतो भवत्येवं क्रमेण येन स्वरूपेणाभिनिष्पद्यत एष आत्मेति होवाच शाकायन्य इति श्रुतेर्वचनमिदम् । एवंविधात्मस्वरूपज्ञाने सति ज्ञातव्यं नावशिष्यते कर्तव्यं वा प्राप्तव्यं वा किमपीत्याह । एतदमृतमभयमेतद्ब्रह्मेति होवाचेति संबन्धः । अमृतमविनश्वरमत एवाभयमप्रकम्प्यमेतदेव ब्रह्म परिपूर्णमद्वयानन्दरूपमित्यर्थः । अतस्त्वं कृतकृत्योऽसीत्यभिप्रायः ।
अस्यानुवाकस्यापरा व्याख्या-पूर्वानुवाकेऽयं वाव खल्वात्मा त इति सामान्यतोऽनिर्धारितविशेष आत्मोपदिष्टस्तद्विशेषबुभुत्सया यः कतम इति पृष्टे तं विशेषतो वक्तुं प्रतिजज्ञे । तत्राऽऽत्मनो निर्विशेषस्वभावत्वाद्विशेषतो निर्वक्तुमशक्यत्वादुपाध्याकारजनितविशेषप्रविलापनेन निर्विशेषमात्मानं दर्शयितुमारभते-अथ य एषउच्छासाविष्टम्भनेनेत्यादिना । अथ यदि विशेषमात्मनोऽवगन्तुमिच्छसीत्यर्थः । तर्हि शृणु । यस्तुभ्यं मयोक्त एष एवोच्छ्रासाविष्टम्भनेनोर्ध्वश्वासो यो मरणकाले भवति स उच्छा. सस्तस्याऽऽसमन्ताद्विष्टम्भनं निरोधस्तेन तन्निरोधं कृत्वा देहान्तःसंचारिणं प्राणमाश्रित्येत्यर्थः । ऊर्ध्वं हृदयात्कण्ठं कण्ठाच्च शिरःपर्यन्तमुत्क्रान्तो विप्रसृतः । उपलक्षणमे. तत् । अपश्वासमाविष्टभ्य हृदयादधोऽप्यपक्रान्त आपादतलमस्तकमयःपिण्डमिव संतपन्नग्निश्चेतनतामापादयन्व्याप्य व्यवस्थित इत्यर्थः । तत्रैवं स्थितस्तत्तदिन्द्रियद्वारकबुद्विवृत्तिभिर्व्ययमानो विविधं शब्दादिविषयाकारणायमानः प्रवर्तमानस्तत्तद्विषयाकारबुद्विवृत्त्यध्यासेन द्रष्टा श्रोता मन्तेत्यायनेकरूपतयाऽऽत्मव्यवहारमनुभवन्निति यावत् ।
१ ख. त एष। २ ग. नक'। ३ ग. ते बीजावस्थामप्याभ। ४ क. 'रूपे नाते स । ५ क. ख. ग. पूर्वोक्तानु । ६ क. "त् । । ७ क. तनामा ।
For Private And Personal