SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५२ रामतीर्थविरचितदीपिका समेता - [ १ प्रथमः प्रपाठकः ] दपसरणं सुरीणामित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैः । अथ किं० कामोपभोगैरिति । अथाप्येतैरुक्तैः किं वोतोऽपि स्थिरत्वेन प्रतिपनानामैन्यानामन्येषामित्येतत् । स्थिरतां न पश्याम इति योजना । यतः शोषणं महार्णवानां प्रलयकाले । अर्णानामिति पाठेऽस्यर्हन्तीत्यर्णा नद्यस्तासां शोषणं महार्णवानां च शोषणमिति योजनीयम् । शिखरिणां महामेरुप्रभृतीनां गिरीणां प्रपतनमुच्छेदः । ध्रुवस्य सर्वज्योतिश्चक्रावलम्बनस्य प्रचलनं स्वमण्डलात्प्रच्यवनम् । वातरज्जूनां वातमयानां रज्जूनां शिशुमारचक्रबन्धनानां व्रश्चनं छेदनम् । पृथिव्या अपि सप्तद्वीपवत्या निमज्जनमुदकान्तर्लयः । एवं स्थाननाशे तत्स्थानां सुराणां ब्रह्मादीनां तस्मात्तस्मात्स्थानादपसरणमपसर्पणं स्थानभ्रष्टतया क्षीणभोगत्वम् । इतीत्थमेतद्विव एतादृक्प्रकारे सर्वथा नश्वरेऽस्मिन्ब्रह्मादिस्तम्बपर्यन्ते संसारे किं कामोपभोगैरिति व्याख्यातम् । "भोगस्थानानां भोग्यदेहेन्द्रियविषयाणां तद्विशिष्टभोक्तृणां चानित्यत्वं प्रसाध्य भोगानामपि तत्प्रसाधयति — Acharya Shri Kailashsagarsuri Gyanmandir यैरेवाशितस्यासकृदिहाऽऽवर्तनं दृश्यते । यैरेवाशितस्या० दृश्यत इति । यैरशितस्य भोजितस्य ब्रह्मलोकपर्यन्तेषु स्थानेषु तर्पितस्य पुंस इह मनुष्यलोकेऽसकृन्मुहुरावर्तनमावृत्तिर्दृश्यते तैरनित्यैः कामोपभोगैः किं ममेत्यर्थः । तदनेन प्रबन्धेनानात्मविषयो वरः प्रत्याख्यातोऽनेन चाऽऽत्मज्ञानयोग्यता दर्शिता । एवं गुरुवैराग्यं विवेकपूर्वकमुपवर्ण्य स्थितो गुरोरनुग्रहदृष्टिमा लक्ष्य तत्पादोपसर्पणं विद्योपदेशग्रहणानं विदधद्गुरुं प्रार्थयते— इत्युद्धर्तुमर्हसि । इत्युद्धर्तुमर्हसीति । यतोऽहं निर्विणोऽस्म्यतो मामुद्धर्तुमईसीत्युक्तवानित्यर्थः । कुत उद्धरणं तदाह अन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवं स्त्वं नो गतिस्त्वं नो गतिः ॥ ४ ॥ इति मैत्र्युपनिषदि प्रथमः प्रपाठकः ॥ १ ॥ अन्धोदपानस्थो० गतिरिति । अन्धोदपानं निरुदकः कूपस्तत्र स्थितो भेको मण्डूक इवास्मिन्यथावर्णिते संसारे स्थितो दुःख्यस्मीत्यस्मादुद्धर्तुमईसीत्यर्थः । कोऽप्यन्यस्त्वामु १ ख. 'राणां सोऽहमि । २ क. 'मन्येषां स्थि' । ३ क. 'ठेऽर्णन्त्यई । ४ क. वातरूपाणां । ५. भोग्यस्था । ६क. गुरौ वै । ७ क. वे चोप' । ८ ख. 'गवस्त्वं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy