SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १प्रथमः प्रपाठकः ] मैन्युपनिषत् । तानेव चक्रवर्तिनः कांश्चिद्गणयति सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववंध्यवाश्वपतिशश बिन्दुहरिश्चन्द्राम्बरीपननक्तुसर्यातिययाँत्यनरण्यक्षसेनादयः । मुद्युम्न सेनादय इति । अत्राश्वपतिः शशबिन्दुरित्यादिपदविच्छेदपाठश्छान्दसः प्रामादिको वा । एते सूर्यसोमवंशजा राजान उक्ताः । एतेष्वपि विशिष्टतरानन्यानुदाहरति अथ मरुत्तभरतप्रभृतयो राजानो। .. अथ मरुत्त० राजान इति । मरुत्तो नाम संवर्तकेन योगिना याजितो राजा यस्य यागे समागता इन्द्रादयः सायुधा एव स्तम्भिताः पुनश्च चमसाध्वर्यवे नियुक्तीः सः । भरतो दोष्यन्तियेनाश्वमेधानां त्रिशती कृतौं सः । प्रभृतिरित्यादिपदपर्यायेण प्रियव्रतादयो गृह्यन्ते। किं तदाह मिषतो बन्धुवर्गस्य महतीं श्रियं त्यक्त्वाऽ. स्माल्लोकादमुं लोकं प्रयाता इति । मिषतो बन्धुवर्गस्य० प्रयाता इतीति । बन्धुवर्गस्य भोग्यजातस्य मिषतः पश्यतो जीवत एव सतोऽक्षुण्णस्येति यावत् । महतीमपरिमितां श्रियं विभूतिं त्यक्त्वाऽनिच्छन्तोऽपि तां परित्यज्यास्मात्प्रतिपन्नाल्लोकादेहादमुं लोकं परोक्षं प्रयाता नष्टा बभूवुरिति निश्चितमित्यर्थः । __एवं मनुष्यशरीराणामुत्कृष्टानामप्यनित्यतामुदाहृत्यामनुष्येष्वप्युत्कर्षनिकर्षतारतम्येन स्थितेष्वनित्यतामावेदयन्नादौ तेषु निकृष्टाननुक्रमते अथ किमेतैर्वा परेऽन्ये गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां निरोधं पश्यामः। अथ किं० पश्याम इति । अथाप्येतैः पूर्वोक्तैः किं वेतोऽप्यन्ये परे चिरस्थायितयोत्कृष्टाः सन्ति तेषां गन्धर्वादीनां निरोधं नाशं पश्याम इति योजना । पिशाचा उन्मादापस्मारादयः । ग्रहा बालग्रहा मातृकादयः । अन्ये प्रसिद्धाः । अथ किमेतैर्वाऽन्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं व्रश्चनं वातरज्जूनां निमज्जनं पृथिव्याः स्थाना १ ख. 'वधियशाश्व' । २ ख. ग. पतिः ।। ३ ख. ग. 'न्दुईरि । ४ ख. ग. श्चन्द्रोऽम्ब। ५ ख. 'रीषो न । ६ ख. 'नक्तुः शर्या । ७ ख. ग. 'तिर्यया । ८ ख. यातिरन। ९ ख. ग. "रण्योऽक्ष। १० ख. 'रुतभ । ११ क. श्चम' । १२ क. 'क्ताः । भ'। १३ क. "ता। प्र। १४ ग. 'न्ते । ते किं । १५ क. 'स्य मि' । १६ क. 'तो म। १७ ग. 'थापि चैतैः । १८ क. र्वाऽन्येषां शो। १९ ख. वा तरूणां नि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy