SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५० रामतीर्थविरचितदीपिकासमेता- [१प्रथमः प्रपाठकः] कामोपभोगैः कार्यम् । आघातं नीयमानस्य वध्यस्येव भोजनाच्छादनालंकारादि न तोषमुपैष्यतीत्यभिप्रायः। ___ न केवलमिदं शरीरं स्वतो बीभत्सितत्वात्कामानहमपि त्वतिबलवदरिनिवहैरभिभूयमानत्वादपोत्याह कामक्रोधलोभमोहभयविषादेर्येष्टवियोगानिष्टसंप्रयोगक्षुत्पिपासा. जरामृत्युरोगशोकाचैरभिहतेऽस्मिञ्चशरीरे किं कामोपभोगैः ॥३॥ काम० भोगैरिति । कामोऽप्राप्ताभिलाषः । क्रोधः प्रसिद्धः । लोभः प्राप्तेष्वपि विषयेष्वलंबुद्धिराहित्यम् । मोहोऽनर्थेऽर्थबुद्धिः । भयं परित्रासः । विषादः शोकः । ईर्ष्या परप्रद्वेषः । इष्टवियोगः स्वानुकूलपुत्राद्यनुबन्धवैकल्यम् । अनिष्टसंप्रयोगः स्वप्रतिकूलानुबन्धसंकलनम् । एताभ्यां दुःखं लक्ष्यते । एवमेतेऽन्तःकरणधर्माः । क्षुत्पिपासे प्राणधर्मों । जरादयो देहधर्मा आगन्तुकाः । शोकः शोकनिमित्तो देहावसादः कार्यमिति यावत् । आदिशब्दादृद्धिविपरिणामौ गृह्यते । अन्यदुक्तार्थम् ॥ ३ ॥ एवंविधोऽपि संघातो यदि चिरस्थायी स्थिरः स्यात्तदा कथंचिदपि विषकीटवद. भिलप्येत नैवमस्तीत्याह सर्व चेदं क्षयिष्णु पश्यामो यथेमे दंशम शकादयस्तृणवनस्पतयोद्भूतप्रध्वंसिनः । सर्व चेदं० प्रध्वंसिन इति। सर्वं चेदं यथावर्णित संघातरूपं क्षयशीलं नश्वरं पश्यामो निर्धारयाम इति प्रतिज्ञा तत्र हेतुरुभूतप्रध्वंसित्वादिति योज्यम्। कादाचित्कत्वादित्यर्थः । यथेम इत्यादि प्रध्वंसिन इत्यन्तं निदर्शनमिति विभागः । तथा चायं प्रयोगः, विमतः संघातोऽशाश्वत उत्पन्नप्रध्वंसित्वाद्य एवं स एवं यथेमे दृश्यमाना दंशमशकादयो यथा वा तृणवनस्पतय उद्तप्रध्वंसिनोऽशाश्वतास्तथा चायं तस्मात्तथेति । वनस्पतयोद्भतेति संधिश्छान्दसेः । वोकारो वाऽत्र लुप्तो द्रष्टव्यः । उक्तदृष्टान्तेष्वप्रकृष्टकर्मजत्वमुपाधिमाशङ्कय तस्याप्रयोजकतां दर्शयन्प्रकृष्ट कर्मनेप्वप्यशाश्वततामाविष्करोति अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः केचित् अथ० केचिदिति । अन्यच्चेत्यस्मिन्नर्थेऽथशब्दः । एतैरुदाहृतैः क्षुद्रजन्तुस्थावरैः किम् । वाशब्दोऽनादरे । पर उत्कृष्टा अन्य उक्तेभ्यो महाधनुर्धरा महाशूराश्चक्रवर्तिनः सार्वभौमाश्च केचिदस्माल्लोकादमुं लोकं प्रयाता इत्युत्तरेणान्वयः । १ क. 'तार्थाभि । २ क. वैक्लव्यम् । ३ क. 'द्धिप । ४ क. निभालयाम । ५ क. °सः । उ । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy