SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४६ रामतीर्थविरचितदीपिकासमेता- [१प्रथमः प्रपाठकः] सत्यज्ञानानन्तानन्दैकरसमवतिष्ठत इति पूर्वापरभावेन कर्मज्ञानकाण्डयोहेतुहेतुमद्भावः सिद्धः । तदनेन व्याख्येयोत्तरकाण्डस्य विषयप्रयोजनाधिकारिणो दर्शिताः । विषयस्य चाऽऽत्मतत्त्वस्य वेदोन्तापरमानासिद्धतया व्याख्येयग्रन्थप्रतिपाद्यताऽसिद्धेति सिद्धानुबन्धचतुष्टयमिमं ग्रन्थं पदशो यथामति व्याख्यास्यामः । पूर्वत्र चयनादिकर्माऽऽम्नातं तच्चाग्निष्टोमातिरिक्तानां सर्वेषां यज्ञक्रतूनां साधारणं तावता सर्वाण्येव कर्माण्युपलक्षणत्वेन गृहीतानि, तथा च सर्वेषां कर्मणां परमात्मज्ञानजन्मोपकारकत्वेन परमपुरुषार्थहेतुत्वं दर्शयितुं श्रुतिः प्रववृते ब्रह्मयज्ञो वा एष यत्पूर्वेषां चयनं ब्रह्मयज्ञो ० चयनमिति । यदिदं पूर्वेषां कर्मप्रकरणोक्तानां कर्मणां चयनं चयनादि सर्व कर्मेष ब्रह्मणः परमात्मनो यज्ञो यजनं पूजनं वै प्रसिद्धम् “यज्ञो वै विष्णुयज्ञेनैव यज्ञं संतनोति " इति श्रुत्यन्तरात् । अत्र चयनग्रहणमस्यां शाखायां प्रथमकाण्डे चयनस्याऽऽम्नानात् । पूर्वत्र विहितानि सर्वाणि कर्माणि परमेश्वरार्पणबुद्धया फलासक्तिं परित्यज्यानुष्ठेयानीति तात्पर्यार्थः । तथा च भगवानाह "ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा " इति । (गी०अ० १ श्लो०१०) तस्माद्यजमानश्चित्वैताननीनात्मानमभिध्यायेत् यस्माद्ब्रह्मपूजनार्थमेव सर्वं कर्म तस्मात् • ध्यायेदिति । यजमानः कर्मण्यधिकृत एतान्पूर्वोक्तानग्नीश्चित्वाऽग्निचयनानन्तरं सर्वं कर्म यथाधिकारं निवर्त्य तत्प्रभावलब्धान्तःकरणशुद्धिः सन्नात्मानं प्रत्यञ्चं वक्ष्यमाणलक्षणमभ्यभितः सर्वात्मब्रह्मभावेन ध्यायेन्निरन्तरं चिन्तयेदित्यर्थः । अत्र क्त्वाप्रत्ययनिर्देशोऽनुष्ठानात्मध्यानयो रन्तर्यपरो न भवति किंतु पूर्वकालत्वमात्रपरः, तथा चास्मिञ्जन्मनि जन्मान्तरे वा वृत्तकर्मानुष्ठानकृतशुद्धयतिशयर्फलं विविदिषां प्राप्य कर्मभ्यो व्युत्थाय प्रत्यक्तत्त्वब्रह्मविचारपरो भवेदित्यभिप्रायः । एवं सति किं स्यादित्येतदाह स पूर्णः खलु वा अद्धाऽविकलः संपद्यते यज्ञः स पूर्णः ० यज्ञ इति । स यज्ञः प्रागनुष्ठितः खलु निश्चितं वै प्रसिद्धमद्धा साक्षा १ ग. वः संबन्धः सि । २ ग. 'दान्तर । ३ क. पूर्वेषां । ४ ख. ध्यायत् । ५ ग. नान्तं स” । ६ क. फलां वि' । ७ क. त्यगभिन्नत्र। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy