SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1101 [१प्रथमः प्रपाठकः ] मैन्युपनिषत् । ३४७ निरुपंचरितं पूर्णः पूर्णफलः संपद्यते । यो स यज्ञो यजमानः 'यज्ञो वै यजमानः' इति श्रुतेः, पूर्णोऽध्यात्मपरिच्छेदाभिमानहान्याऽनवच्छिन्नः परमात्मा संपद्यते, अद्धा खलु वा इत्युक्तार्थम् । आत्मानमभिध्यायेदित्युक्तं ध्येयमात्मानं प्रश्नप्रतिवचनाभ्यां संक्षेपतो निर्दिशति कः सोऽभिध्येयोऽयं यः प्राणाख्यः। कः . प्राणाख्य इति । स आत्माऽभिध्येयः पूर्वोक्तः कः किंवरूपः किंप्रमाणकश्चेति प्रश्नभागार्थः । यः प्राणाख्यः प्राणेन प्राणनेन प्राणनादिव्यापारेणाऽऽख्यायते प्रख्यायतेऽस्तीति निश्चीयत इति प्राणाख्योऽयं स ध्येय आत्मेति प्रतिवचनभागार्थः । तथा च श्रुतिः- “को ह्येवान्यात्कः प्राण्यादेष आकाश आनन्दो न स्यात् " (तैत्ति ० उ० ) इति “ यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ” ( बृहदा० अ० ३ ब्रा० ४ ) इत्याद्या च। यो देहादिसङ्घातसाक्ष्यात्मा सोऽभिध्येय इत्यर्थः । उक्तार्थसंग्रहप्रपञ्चनं प्रतिनानीते तस्योपाख्यानम् ॥ १॥ तस्योपाख्यानमिति । तस्य प्राणाख्यस्याऽऽत्मन उप समीप आख्यानं तत्वमावस्य स्पष्टकथनमारभ्यत इति वाक्यशेषः ॥ १ ॥ घृहद्रथो वै नाम राजा विराज्ये पुत्रं निधापयित्वा । बृहद्रथो वा इत्याद्याख्यायिका सुखावबोधार्था तपोवैराग्ययोरात्मज्ञानाङ्गत्वख्यापनार्था च । बृहद्रथो निधापयित्वेति । विविधं राज्यमस्मिन्निति विराज्यं तस्मिन्विराज्ये सार्वभौम आधिपत्य इत्यर्थः । निधापयित्वा मन्त्रिभिनिधानं स्थापनं कारयित्वे. त्यर्थः । राज्यस्थेम्ने पुत्रमभिषिच्येति यावत् । स्वयं जीवति सति पुत्रस्य राज्यदाने निमित्तमाह इदमशाश्वतं मन्यमानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम इदमिति । इदं शरीरमशाश्वतमनित्यं मन्यमान इति संबन्धः । वैराग्यं रागनिवृ. त्तिमुपेत ऐहिकामुष्मिकभोगरागविनिर्मुक्त इत्यर्थः । अरण्यं ग्राम्यजनवजितं विविक्तमभयं देशं प्रति निर्जगाम प्रस्थित इत्यर्थः । स तत्र परमं तप आस्थायाऽऽदित्यमुदीक्षमाण ऊर्ध्वबाहुस्तिष्ठति । स तत्र तिष्ठतीति । तत्रारण्ये स राजा बृहद्रथनामा परमं दुष्करं कायशोषल. १ क. पमचरितः पु । २ क. "द्वा य । ३ ख. 'स्योपव्याख्या। ४ क. राज्ये स्वे पु । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy