SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः। मैत्र्युपनिषत् । रामतीर्थविरचितदीपिकासमेता । गणाधिपतिमस्वल्पविघ्नग्रासं महोदरम् । विपदुत्सारणाभ्यासलम्बीकृतकरं नुमः ॥ १ ॥ प्रणम्य रामं प्रणताभयप्रदं गुरूंस्तथा कृष्णमुखांस्तदात्मनः । मैत्रायणानां श्रुतिमौलिमर्थतः प्रसाध्य विष्णोः परमे पदेऽपये ॥ २ ॥ — 'ब्रह्मयज्ञो वा एषः' इत्याद्या मैत्रायणानामुपनिषत्तस्याः पूर्वकाण्डेन संबन्धः काण्डचतुष्टयात्मके पूर्वस्मिन्ग्रन्थेऽनेकानि कर्माण्यग्निहोत्रादीनि विहितानि तानि चोच्चावचफलार्थतया श्रुतानि यद्यपि तथाऽपि न परमपुरुषार्थपर्यवसितानि, यतः साध्यफलानि तानि, साध्यं चानित्यं “यत्कृतकं तदनित्यम्' इति नियमात् । श्रुतिश्चात्र भवति 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते" (छान्दो० अ० ८) इति । 'यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव" (बृहदा० अ० १ ब्रा० ४ ) इति च । तथा “यो वा एतदक्षरं गार्यविदित्वाऽ. स्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" (बृहदा० अ० ३ ब्रा० ८) इति च । तस्मात्स्वभावतो नित्यनिरतिशयपुरुषार्थिनः पुंसोऽभिलषितसाधनोपायप्रदर्शनाय प्रवर्तमानो वेदोऽनादिभवपरंपरानुभूतानेकविषयवासनावासितान्तःकरणं वासनापरवशतया प्रवर्तमानं विषयासक्तमानसं प्रति सहसा विषयप्रवणतापरावर्तनेन परमपुरुषार्थरूपाविद्यानिवृत्तिपरमानन्दाविर्भावसाधनप्रत्यगात्मतत्त्वब्रह्मप्र. वणतामापाद्य पैरं ब्रह्मात्मतत्त्वं बोधयितुमशक्नुवन्नादौ कर्माण्येव पुरुषार्थसाधनतयोपदिशति, पुनस्तत्रैव निष्ठां संपाद्य तन्निष्ठस्य नित्यनैमित्तिककर्मानुष्ठानप्रभावतः शनैः शुध्यमानान्तःकरणस्य पुनरीश्वरार्पणबुद्धयैव निष्कामकर्मानुष्ठानादतितरां शुद्धान्तःकरणस्य नित्यानित्यवस्तुविवेकवत इहामुत्रार्थभोगरागशून्यस्य शमदमादिसाधनवतो मोक्षमात्राकाक्षिणोऽधिकारसंपत्तिमालक्ष्य प्रत्यगात्मतत्त्वं ब्रह्माध्यारोपापवादन्यायेनावगमय्य स्वयं च तेनैवावगमेन सह तस्मिन्नेवाऽऽत्मतत्त्वे ब्रह्मणि विलीयमानो ब्रह्मात्ममात्राद्वयं १ क. 'यणीनां । २ क. यणीना' । ३ क. न्यायात् । ४ क. 'न्महापुण्यं । ५ ग. नेनाऽऽ। ६ क. परब । ७ क. गविरागाश। ८ क. मात्रमदु । ४४ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy