SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४ शंकरानन्दविरचितदीपिकासमेताविशत्सोऽहं नित्यानित्यो ब्रह्माहं ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाश्च उदञ्चोऽहमधश्चोर्ध्वं च दिशश्च विदिशश्चाहं पुमानपुमान्स्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुजगत्यनुष्टुप्चाहं छन्दोऽहं गार्हपत्योऽहं दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यह ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहमृग्यजुःसामाथागिरसोऽहमक्षरमहं क्षरमहं गुह्योऽहं गोप्योऽहमरण्योऽहं पुष्करमहं स प्रसिद्धः कालत्रयेऽपि वर्तमानो भवद्भिर्मद्वचनाद्विज्ञातः । अहं रुद्रः । नित्यानित्यो हेतुहेतुमद्रूपः। ब्रह्म बृहदेशकालवस्तुपरिच्छेदशून्यः । अहं रुद्रः । ब्रह्माहम् । व्याख्यातम् । वाक्याभ्यासो ब्रह्मस्वरूपस्याऽऽत्मनो वास्तवत्वप्रदर्शनार्थः । इदानीं सूत्रप्रायं वचनं व्याकरोति । प्राञ्चः प्राग्गामिनः प्राणाश्चक्षुरादयः प्राञ्चः । प्रत्यग्गामिनः प्राणा वागादयः प्रत्यञ्चः । अहं रुद्रः । दक्षिणाञ्चो दक्षिणदिग्गामिनः प्राणाः श्रोत्रादयो दाक्षणाञ्चः । उदश्च उत्तरदिग्गामिनः प्राणा मनआदय उदश्चः । अहं रुद्रः । दिक्चतुष्टयचारिणश्चेतनात्मत्वेनोक्त्वेदानीमवशिष्टानामात्मत्वमाह । अधश्चोर्ध्वं च दिशश्च विदिशश्चाहम् । अहं रुद्रः । पुमानपुमान्स्त्रियश्चाहम् । अपुमान्नपुंमकः। स्पष्टमन्यत्। सावित्री सवितृदेवताका । अहं रुद्रः । गायत्री सैव चतुर्विंशत्यक्षरत्वोपाधिना गायत्रीछन्दस्त्वेव गायत्री । अहं रुद्रः । त्रिष्टुप्चतुश्चत्वारिंशदक्षरं छन्दः । जगत्यष्टाचत्वारिंशदक्षरं छन्दः । अनुष्टुब्द्वात्रिंशदक्षरं छन्दश्चकारात्पङ्क्तयादिकमपि । अहं रुद्रः । छन्दश्छन्दःशब्द वाच्यं निःशेषम् । अहं रुद्रः । गार्हपत्यो दक्षिणाग्निराहवनीयोऽहम् । श्रौतमन्नित्रयं गार्हपत्यदक्षिणाग्नयाहवनीयनामधेयम् । अहं रुद्रः । सत्योऽविनाशी । प्रपञ्चरूप.सत्य (त्या)सत्यवचनरूपो वा। अहं रुद्रः। गौः सास्नादिमती गोशब्दवाच्यं वा निःशेषम् । अहं रुद्रः । गौरी शिवप्रियाऽष्टवर्षा वा कुमारी गौरवर्णा वा ललना तुलसी वा गौरवर्णं वा स्त्रीलिङ्गं निःशेषं जगत् । अहं रुद्रः । ज्येष्ठो वयसाऽधिकः । अहं रुद्रः । श्रेष्ठोऽतिशयेन प्रशस्यः । अहं रुद्रः । वरिष्ठः सर्वाधिकः । अहं रुद्रः । आपोऽहं तेजोऽहम् । स्पष्टम् । अप्तेजसोर्ग्रहणं भूतान्तराणामप्युपलक्षणार्थम् । ऋग्यजुःसामाथर्वाङ्गिरसोऽहम् । अथर्वणाऽङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसोऽथर्ववेद इत्यर्थः । स्पष्टमन्यत् । अक्षरं प्रणवादिरूपम् । अहं रुद्रः । क्षरं विनाशि । अहं रुद्रः । गुह्यः , गोप्यो मन्त्रध्यानोपदेशादिरूपः । अहं रुद्रः । अरण्योऽरण्यरूपोऽरणि भिवो वा । अहं रुद्रः । पुष्करं तीर्थविशेषरूपम् । रलयोरैक्यात्पुष्करं पुष्कलं वा. ऽधिकं स्वरूपतः पररूपतो वा चेतनमचेतनं वेत्यर्थः । १ घ. 'त्यो । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy