SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। अथर्वशिरउपनिषत्। शंकरानन्दविरचितदीपिकासमेता । ॐ भद्रं कर्णेभिः। स्वस्ति न इन्द्रो०२ओं शान्तिः शान्तिः शान्तिः॥ ___ ॐ देवा ह वै स्वर्ग लोकमगमंस्ते देवा रुद्रमपृच्छन्को भवानिति सोऽब्रवीदहमेकः प्रथममासं वामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशदिशश्चान्तरं संप्रा वक्ष्येऽथर्वशिरोनाम्न्याः श्रुतेर्व्याख्या पदानुगाम् । रुद्रात्म्यैक्यावगत्यर्थं रुद्रस्तुष्टोऽस्तु नस्तया ॥ १ ॥ विद्याया अतिदुर्लभत्वप्रदर्शनार्थमाख्यायिकामवतारयति । देवा इन्द्राग्निवायुप्रभृतयो रुद्रजिज्ञासवः । ह किल वै प्रसिद्धम् । स्वर्ग स्वः सुखस्वरूप आनन्दात्माऽवगम्यते यस्मिल्लोके स स्वर्गस्तं लोकं रुद्रनिवासभूतं ब्रह्मलोकमित्यर्थः । अगमन्गतवन्तस्तत्र गत्वा नीललोहितं त्रिलोचनं पिनाकपाणिं चित्रपुरुषमवलोक्य । ते स्वर्गगता देवा उक्ताः। रुद्रं सर्वदुःखनाशकं सृष्टिस्थितिविनाशकारणम् । अपृच्छन्पृष्टवन्तः । तत्प्रश्नमाह । कः प्रश्ने । भवांस्त्वमित्यनेन प्रकारेण । स रुद्रोऽब्रवीदुक्तवान् । अहं स्वयंप्रकाशचिदानन्दम्वरूप एको देशकालवस्तुपरिच्छेदशून्यः प्रथमं जगदुत्पत्तेः प्रागासं सर्वजगदात्मनाऽवतस्थिवान् । तर्हि यथा क्षीरं पूर्वमासीन्नेदानी न च भविष्यति तद्वत्किं त्वमपत्यिाशङ्कय नेत्याह । वामि च भविष्यामि च । वर्त एकश्चकारः कालातीतत्वमाहापरः कालात्मकत्वमाह । स्पष्टमन्यत् । ननु यथा त्वं स्थितस्तथाऽन्योऽपि तादृशो वाऽन्यादृशो वा कश्चन स्यादित्यत आह । नान्यः कश्चिन्मत्तो व्यतिरिक्तः । स्पष्टम् । आसीद्वर्तते भविष्यति चेति शेषः । इति, अनेन प्रकारेण । एवं तान्प्रत्युक्त्वा स रुद्रः प्रथमतस्तेषां मिषतामन्तरिक्षमगादिति शेषः । ततोऽन्तरादन्तरिक्षादन्तरं नयनपथागोचरं देशं प्राविशत्प्रविष्टवान् । दिशश्चान्तरं संप्राविशत् । स्पष्टः पदार्थः । उपर्यदर्शने दिश्वप्यवलोक्यनानोऽब्देवैन दृष्ट इत्यर्थः । एवमन्तर्धानं प्राप्य व्याकुलितमनसो देवान्नानहीनास्त संधयाशिशूनिव विलोक्य च तेषां मनःसमाधानं जनयितुं पूर्वोक्तमेव शब्दबाटुल्येनादृष्टशरीर इत्याह । १ ग. कश्चन मत्तो। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy