SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२ नारायणविरचितदीपिकासमेताऽथर्वशिरउपनिषत् ।। नीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वैर्देवैमा॑तो भवति स सवर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्तीतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति प्रणवानामयुतं जप्त भवत्या चक्षुषः पति पुनात्या सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृजप्त्वैव शुचिः पूतः कर्मण्यो भवति द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यम् ॥ ७॥ इत्यथर्ववेदेऽथर्वशिरउपनिषत्समाप्ता ॥ ५ ॥ अग्निपूतोऽग्निना हुतेन यथा पूतो वायुना प्राणायामैर्यथा पूतः सूर्यपूतः सूर्यणोपस्थितेन यथा पूतः सोमेन सोमपानेन यथा पूतः सत्येनाऽऽभाषितेन सर्वधर्मसाधनैरनुष्ठितैर्यथा पूतस्तथाऽनेनेत्यर्थः । वेदैरिति । वेदानां वेदनारूपेण चेतनत्वादनुध्यानं संभवति । पुरुषयुगान्पितृपक्षीयान्मातृपक्षीयांश्चाऽऽसप्तमात्पुरुषपदादात्मानमभिव्याप्य पुनातीत्याह भग. वानथर्वा । सकृदादिपाठस्य फलमाह । अथर्वशिर इति । एवमेवानुप्रविशतीति । विशेषमपश्यन्सामान्यमेव प्रविशति तच्च सामान्यरूपं ब्रह्मैव । मोक्षं यातीत्यर्थः । यद्वा । एविष्णुर्वः शिवस्तयोः समाहार एवं हरिहरस्वरूपं तदेवानुप्रविशतीति । एविष्णौ वो महेश्वर इति चैकाक्षरनिघण्टः । हरप्राप्त्या हरिप्राप्तिरविरुद्धैकमूर्तित्वात्तयोरिति । किं तत्सामान्यरूपं यदनुप्रविशतीत्यपेक्षायामाह । सत्यमिति । ओंकारवाच्यं सत्यमित्यर्थः । हरिहररूपमेतदुभयवाच्यं भवति । एकवाक्यं वोकारवाच्यं सत्यमेव साधनान्तरं विनैवानुप्रविशतीति । द्विरुक्तिः समाप्त्यर्था ॥ ७ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिकाऽवमस्तके ॥ १ ॥ इति नारायणविरचिताऽथर्वशिरउपनिषद्दीपिका समाप्ता ॥ २ ॥ १ क. सर्वदेवें । २ क. च.नु प्राऽऽवि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy