SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१ अथर्वशिरउपनिषत् । शेते रुद्रस्तदा संहार्यते प्रजाः। उच्छसिते तमो भवति तमस आपो अप्स्वगुल्या मथिते मथितं शिशिरे शिशिरं मध्यमानं फेनो भवति। फेनादण्डं भवत्यण्डाब्रह्मा भवति ब्रह्मणो वायुवायोरोंकार ओंकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्धृवम् । एतद्धि परमं तप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति ॥ ६॥ ___ य इदमथर्वशिरो ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवत्यनुपस्थात्कालः संकर्षणोऽहन्ताधिपः क्षणादिव्यवहारनिमित्तभूतः संजायते । कालाव्यापक उच्यते सति काले व्याप्ये व्यापकसंज्ञां लभते । भोगायमानः सर्पशरीरमिवाऽऽत्मानं संवृण्वानो यदा शेत उपरतक्रियो भवति तदा संहार्यते संहर्ता भवतीत्यर्थः । संप्रति सृष्टिमाह । उच्छ्रसित इति । कार्यजननोत्सुक ईश्वरे सति तमोऽज्ञानं प्रमृतं भवति । तत आकाशादिक्रमेणाऽऽपः । अप्स्वङ्गुल्या ईश्वरेण मथिते प्रमथने कृते सति मथितं तक्रमिव जायते । ततः शिशिरे विलम्बे सति शिशिरं शीतं भवति । शीतार्थाः शब्दा विलम्बार्था अपि भवन्ति यथा शीतकोऽयं विलम्बं करोतीति गम्यते । अथवा शिशिरे वायौ वाति शिशिरं भवतीत्यर्थः । शीतलं सत्पुनर्मथ्यमानं फेनो भवति । फेनात्कालेनाण्डं भवति । ब्रह्मा प्रजापतिः । वायुः प्राणाख्यः । 'मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्' इत्युक्तेः । वायोरोंकारः । ओंकारात्सावित्री गायत्र्याः पूर्वावस्था व्याहृत्याख्या प्रणवाक्षरत्रयाद्व्याहृतित्रयमित्यन्यत्रोक्तेः । गायत्री तत्पदादिका । गायच्या वेदत्रयद्वारा त्रयो लोका भवन्ति । अर्चयन्ति लोकान्बुधाः कुतो यतो लोकास्तपः सत्यं यच्च ध्रुवं मध्वमृतं मोक्षाख्यं तत्क्षरन्ति शरीरसाध्यत्वात्तपआदीनां शरीरस्य च सृष्ट्यधीनत्वादितरथाऽविद्याधनः सुषुप्तिजाड्यान्न निवर्तेत । अत एवेश्वरस्य जीवानुग्रहाय सृष्टिनिर्माणमिति वदन्ति । किं तत्परमं तप इत्यत आह । तप इति । तपःसाधनत्वादयं मन्त्रस्तप इत्युक्तः । तस्मात्प्रयत्नेन प्राणानायम्याऽऽवर्तनीय इति भावः । तपःसत्यलोकाख्यं ध्रुवं मधु क्षरन्ति प्रस्रवन्ति लोका भूरादयस्तेन तानर्चयन्ति । एतद्धि यस्मात्परमं तपः फलं गायत्रीशिरःसाध्यमिति वाऽर्थः ॥ ६ ॥ संप्रत्यध्ययनफलमाह । य इदमथर्वशिर इति । ब्राह्मण इति वचनादुपनीतस्यापि क्षत्रियादेर्नाधिकार इति गम्यते । मुख्यत्वबोधनाय ब्राह्मणग्रहणम् । अधीत इति । अर्थावबोधपर्यन्तमध्ययनं पाठमात्रस्य निन्दाश्रुतेः । न चाल्पायासेन कथं बहुयत्नसाध्यं फलं स्यादिति शङ्कयम् । अल्पायासेऽप्यमृतादेर्महातृप्तिजनकत्वादिदर्शनाद्वस्तुशक्तेः पर्यनुयोगायोगात् । श्रोत्रियो वेदमधीत्य तदर्थानुष्ठाताऽनधीतवेदोऽप्येतन्मात्राध्ययनेनैतादृशो भवतीत्याह । अश्रोत्रिय इति । अनुपनीतो द्वितीयोपनयनादिरहितः । १ ख. तन्मत्राय। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy