SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४२ नारायणविरचितदीपिकासमेतातथाहि-“ओंकारो वर्तुलस्तारो बिन्दुः शक्तिस्त्रिदेवतः । प्रणवो मन्त्रगम्यश्च पञ्चध्रुवः शिवः (?) ॥ मन्त्राद्यः परमं बीजं मूलमाद्यश्च तारकः । शाबादिव्यापको व्यक्तः परं ज्योतिश्च संविदः” इति ॥ स्थानं कालं लयं तथेति । कालशब्दो मेचकवाचको वर्ण लक्षयति तेन वर्ण वक्ष्यामीत्यर्थः । वर्णमित्येव वक्तव्ये कालग्रहणं मात्रारूपकालस्यापि संग्रहार्थमिति द्रष्टव्यम् ॥ ३ ॥ अवयवशः शरीरं तावदाह तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिम्रो मात्रार्धमात्रा च अक्षरस्य शिवस्य च ॥ ४ ॥ तत्र देवा इति । अक्षरस्य शिवस्य चेति । शिवोऽर्धमात्रार्थः । तिस्रो मात्रा अक्षरस्यार्धमात्रा शिवस्येत्यर्थः । प्रणवस्य देवादयस्त्रयस्त्रयोऽनुपदमेव वक्ष्यन्ते । तिम्रो मात्रा अर्धमात्रा चेति वक्तव्ये छान्दसः संधिः । तदुक्तं हठपदीपिकायाम् "अकारश्च उकारश्च मकारो बिन्दुसंज्ञकः । त्रिधा मात्रा स्थिता यत्र तत्परं ज्योतिरोमिति" इति ॥ ४ ॥ ऋग्वेदो गार्हपत्यः पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥५॥ यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥६॥ सामवेदस्तथा धौश्वाऽऽहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥७॥ उक्तं तदेव विभजते-ऋग्वेद इत्यादिना । ब्रह्म एव चेत्यत्र छान्दसो हवः प्रकृतिभावश्च । ब्रह्मा देव इत्यर्थः ॥ ५ ॥ ६ ॥ ७ ॥ इति प्रथमः खण्डः ॥ १ ॥ खण्डान्तेन ग्रन्थेन शरीरमुक्तं संप्रति स्थानं वर्णसहितमाह सूर्यमण्डलमाभाति अकारः शङ्खमध्यगः। उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ८॥ सूर्येति । सूर्यमण्डलमिवाऽऽभात्यकारः । शङ्खो ललाटास्थि तन्मध्यं नेत्रं स्थानं तत्र वर्तमानः । “योऽयं दक्षिणेऽसन्पुरुषः" इति श्रुतेः । "शङ्खो निध्यन्तरे कम्बुललाटास्थि. १ ख. ग. त्र्यक्षरस्य। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy