SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। ब्रह्मविद्योपनिषत् । नारायणविरचितदीपिकोपेता। ब्रह्मविद्योपनिषदि द्विखण्डायां त्रिदेवताः ॥ स्थित्युत्पत्तिलयाः प्रोक्ताः प्रणवस्याक्षरत्रयात् ॥ १ ॥ प्रभे प्रणवो मात्राभेदेनोपास्यतयोपलक्षितस्तस्यावयवशः शरीरस्थानवर्णलया नोक्ता इति तदर्थं ब्रह्मविद्योपनिषदारभ्यते__ॐ ब्रह्मविद्यां प्रवक्ष्यामि सर्वज्ञानमनुत्तमम् ॥ यत्रोत्पत्तिं लयं चैव ब्रह्मविष्णुमहेश्वरात् ॥ १॥ ब्रह्मविद्यामिति । ब्रह्मविद्यां प्रवक्ष्यामीति श्लोकः क्वचिदेवाऽऽदौ पठ्यते । ब्रह्म प्रणवस्तस्य विद्या ज्ञानम् । तां किंभूतां सर्वेषां ज्ञानं ज्ञानोपायभूतां प्रणवेन ब्रह्मणि ज्ञाते सर्वस्य विज्ञानात् । तथा यत्र विद्यायां देवत्रयादुत्पत्तिं लयं चकारात्पालनं च वक्ष्यामीति पूर्वेणान्वयः । श्रुतेः प्रतिज्ञेयम् ॥ १ ॥ प्रसादान्तरसमुत्थस्य विष्णोरद्भुतकर्मणः॥ रहस्यं ब्रह्मविद्याया ध्रुवाग्निः संप्रचक्षते ॥ २॥ प्रसादेति । विष्णोर्ब्रह्मविद्याया रहस्यं ध्रुवाग्निः प्रणवतेज इति संप्रचक्षते बुधा इत्यन्वयः । विष्णुनेयं विद्या प्रवर्तितेत्यर्थः । कीदृशस्य प्रसादेन भक्तकृपयाऽन्तरात्स्तम्भमध्यात्समुत्थस्य नृसिंहरूपेण प्रकटीभूतस्य । यद्वा प्रासादो देवभूभुनामितिकोशाक्षीरोदार्णववैकुण्टबालिगृहद्वारादेः प्रासादस्यान्तरा जगद्रक्षार्थं प्रकटीभूतस्य । यद्वा प्रसादो लिङ्गाद्यपेक्षया प्रसन्नरूपो जीवस्तस्यान्तरमावरणमविद्यादि ततः समुत्थस्य निष्क्रान्तस्याविद्याद्यावरणरहितस्येत्यर्थः । यथोक्तं छान्दोग्ये- “स एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य खेन रूपेणाभिसंपद्यते स उत्तमः पुरुषः" इति । अद्भुतकर्मणो मत्स्यादिरूपेण ॥ २॥ ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः॥ शरीरं तस्य वक्ष्यामि स्थानं कालं लयं तथा ॥३॥ ओंकारो ध्रुवोऽक्षरनिघण्टावुक्तः । १ ख. 'लिद्वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy