________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ॥
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९ ॥ गवामिति । गवां सौरभेयीणामनेकवर्णानामपि सतीनां यत्क्षीरं तस्यैकवर्णता भवति । विद्वान्ग्रन्थेषु क्षीरवज्ज्ञानं पश्यति परीक्ष्य गृह्णाति । यथा लिङ्गिनो वेत्रधारिण आभीरा गवां क्षीरं गृह्णते तद्वत् ॥ १९ ॥ सदृष्टान्तं ज्ञानस्य ग्रहणोपायमार्ययाऽऽह
घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ॥ सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ २० ॥
ज्ञाननेत्रं समादाय चरेद्वह्निमतः परम् ॥ २१ ॥ घृतमिवेति । ज्ञाननेत्रमिति । ज्ञानं शास्त्रोत्थं तदेव नेत्रं दृष्टिस्तां समादाय शास्त्रतो गुरुतश्च गृहीत्वाऽतः परं वह्निं वैश्वानरमनुभवरूपं चरेत्साधयेत् । साक्षात्कारस्य वह्निता शास्त्रे प्रसिद्धा । यथा--"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति । यद्वा वह्निं प्रणवं चरेदुच्चरेत् । वक्ष्यति च-अग्निशब्दमेवाभिचिन्तयेदोमित्येकाक्षरं ब्रह्मेति । शब्दस्याग्निता मुखजत्वान्मुखादग्निरजायतेति श्रुतेः प्रकाशत्वाच्च ॥२०॥२१॥ अनुभवस्य विषयमाह
निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ सर्वभूताधिवासं च यद्भूतेषु वसत्यपि ॥ २२ ॥ सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवस्तदस्म्यहं वासुदेव इति ।। २३ ॥
इत्यथर्ववेदे ब्रह्मबिन्दूपनिषत्समाप्ता ॥ २३ ॥ निष्कलमिति । अनुभवस्य स्वरूपमभिनीय दर्शयति-तदिति । तज्ज्ञानं ब्रह्माहमित्येवमाकारं स्मृतम् । सर्वेषां भूतानामधिवासोऽस्मिन्सर्वभूताधिवासम् । यच्च भूतेष्वधि वसति । यस्मादधिकमिति सप्तमी । सर्वानुग्रहकर्तृत्वेन वासुदेव इति प्रसिद्धं तदहमस्मि स एव वासुदेव ईश्वरोऽपि। जीवेश्वरयोर्ब्रह्मण्यैक्यमित्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥२३॥
इति चतुर्थः खण्डः ॥ ४ ॥ नारायणेन रचिता श्रुतिमात्रोपनीविना ।
अस्पष्टपदवाक्यानां दीपिका ब्रह्मबिन्दुके ॥ १॥ इति नारायणविरचिता ब्रह्मबिन्दूपनिषद्दीपिका समाप्ता ॥ ३० ॥
* उपनिषद्विन्दुपञ्चके द्वितीयेयमुपनिषत् ।
For Private And Personal