________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मबिन्दूपनिषत् ।
३३९ घटसंतृतमाकाशं लीयमाने घटे यथा । घटो लीयेत नाऽऽकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटवद्विविधाकारं भिद्यमानं पुनः पुनः ।
तद्भग्नं न च जानाति स जानाति च नित्यशः ॥ १४ ॥ व्यतीतस्य निष्क्रान्तस्याधिकारिणः । नभोपम आकाशतुल्यः । छान्दसः संधिः । नभशब्दो वाऽकारान्तः। भिद्यमानं देहनालं नित्यशो नित्यमात्मानं स जानाति । द्विती. यान्तात्स्वार्थे शस्प्रत्ययः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
शब्दमायावतो यावत्तावत्तिष्ठति पुष्करे ।
भिन्ने तमसि चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ शब्देति । शब्दमानं या माया न वास्तवी वाचारम्भणमिति श्रुतेः । तयाऽऽवृतो यावत्तावत्पुष्करे हृत्पुण्डरीके तिष्ठति । भिन्ने ज्ञानेन निवृत्ते तमस्यस्य ज्ञान एकत्वं भवति। एकमेव चानुपश्यति ।
"पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः ।
ओषधीद्वीपविहगतीर्थरागोरगान्तरे ॥ पुष्करं तूर्यवक्त्रे च काण्डे खड़फलेऽपि च" इति विश्वः ॥ १५ ॥
. इति तृतीयः खण्डः ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्षरम् ।
तद्विद्वानक्षरं ध्यायेद्यदिच्छेच्छान्तिमामुयात् ॥ १६ ॥ शब्दाक्षरमिति । शब्दश्च तदक्षरं च शब्दाक्षरं शब्दब्रह्मत्यर्थः । तथा परं ब्रह्म चैतन्यं चैतद्वयं वर्तते । विद्वान्पण्डितः । एतयोर्मध्ये यस्मिन्क्षीणे सति यदक्षरमक्षीणं भवति तदक्षरं यदि ध्यायेच्चिन्तयेत्तथा यद्यदीच्छेद्वाञ्छेत्तर्हि शान्तिमाप्नुयान्नान्यथा ॥ १६ ॥ तदेव स्पष्टयति
द्वे विद्ये वेदितव्ये हि शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥ द्वे इति । निष्णातः कुशलः । निनदीभ्यां स्नातेः कौशल इति षत्वम् । विद्यास्नात इत्यर्थः ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः ॥
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८ ॥ मेधावी ग्रन्थाम्यासेन कृतबुद्धिः । ज्ञानं शाब्दम् । विज्ञानं साक्षात्कारः । उभयोस्तत्त्वतस्तत्त्वं ज्ञात्वा । ल्यब्लोपे पञ्चमी ॥ १८ ॥
१ ख, संभृत।
For Private And Personal