SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३८ नारायणविरचितदीपिकासमेतास्यात्तत्त्वस्य चिन्तनीयत्वादतत्त्वस्य विस्मरणीयत्वाचेत्यत आह-अचिन्त्यमिति । अचिन्त्यं चिन्तयितुमशक्यं यत्तत्त्वं तन्नैव चिन्त्यमस्ति । अविषयत्वात् । चिन्त्यमेव सर्वदा चिन्तयितुं योग्यमेव यद्विषयजातं तच्चिन्त्यम् । चिन्तयितुमयोग्यं विस्मरणीयं नास्त्यवस्तुत्वात् । न स्मर्तव्यं नापि विस्मर्तव्यं किंचिदस्तीत्यर्थः । पक्षपातस्तत्त्वचिन्तनमतत्त्वविस्मरणं च ताभ्यां विनिर्मुक्तं रहितं यदा भवति तदा ब्रह्म संपद्यते ॥ ६ ॥ प्रथमाधिकारिणं प्रत्याह-- स्वरेण संधयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावो नाभाव इष्यते ॥ ७ ॥ स्वरेणेति । स्वरेण शब्देन गुरूपदेशेन प्रणवेन वा योगं चित्तनिरोधं संधयेदारभेत । अस्वरं शब्दातीतं परं वस्तु भावयेच्चिन्तयेत् । भावेन भाव्यमानेन चिन्त्यमानेन भावो वस्तु परं ब्रह्माभावः शून्यं नेष्यते किं त्वस्तीति गम्यते । इष सर्पणे । ब्रह्म साक्षाद्भवतीत्यर्थः । ये गत्यर्थास्ते ज्ञानार्थाः । अथवा स्वरेणाकारोकारोपलक्षितेन जाग्रत्स्वनाख्येन योगं कुर्यात् । श्रद्धातिशयेन जाग्रत्स्वप्नेऽपि तदभ्याससंभवात् । अस्वरं मकारोपलक्षितमानन्दस्थानं परमग्रेतनं भावयेत् । अस्वरेण मकाराख्येन भावेन मात्रया नाभावोऽभावो न किंतु पूर्णो भावस्तुरीयमिप्यते गम्यत इति । तदुक्तममृतबिन्दौ"अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति" इति ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाचं च ज्ञात्वा च परमं शिवम् ॥ ९॥ न निरोधो न चोत्पत्तिर्न बन्धो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता ॥ १०॥ तदेवेति । यत्साक्षाद्भवति तदेव ब्रह्म न तु तदेवं नैवमिति वक्तुं शक्यते । निरोधो मरणम् । शासनमुपदेशः । न मुक्तिः च इत् इति एषा इति पदच्छेदः। इदनर्थको निपातः। यद्वा इत्येषा चेद्बुद्धिस्तर्हि परमार्थता सत्यार्थज्ञता संपन्नेत्यर्थः ॥८॥९॥१०॥ इति द्वितीयः खण्डः ॥ २ ॥ एक एवाऽऽत्मा मन्तव्यो जाग्रत्स्वमसुषुप्तिषु । स्थानत्रयायतीतस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकथा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy