________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः। ब्रह्मबिन्दूपनिषत्।
tatate
नारायणविरचितदीपिकासमेता।
ब्रह्मावबोधको विन्दुः स्तोकोपनिषदुच्यते । अष्टादशी चतुष्खण्डा ब्रह्मबिन्दुरिति स्मृता ॥
ॐ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । उक्तो योगस्तत्फलं ब्रह्मसाक्षात्कारस्तद्ब्रह्म कीदृशं कीदृशश्च साक्षात्कारः कोहशश्च लयरूपः समाधिरेतदर्थं ब्रह्मबिन्दूपनिषदारभ्यते--मनो हि द्विविधमित्यादि । तयोर्लक्षणमाह
अशुद्धं कामसंकल्पं शुद्ध कामविवर्जितम् ॥ १ ॥ अशुद्धमिति । कामान्संकल्पते तत्कामसंकल्पम् ॥ १ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः। बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥२॥ अतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मानिर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ ३ ॥ निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् ।
एतज्ज्ञानं च ध्यानं च अतोऽन्यो ग्रन्थविस्तरः ॥५॥ मनसो मुक्तिर्लयः । हृदि हृत्कमले । उन्मनीभावो निःसंकल्पता। तदुक्तम्-'यो मनःसुस्थिरीभावः सा चावस्था मनोन्मनी' इति ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥
इति प्रथमः खण्डः ॥ १ ॥ नैव चिन्त्यं न वाऽचिन्त्यमचिन्त्यं चिन्त्यमेव च ।
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६ ॥ नैवेति।आद्यपादे विधेयद्वयम् । द्वितीयपादे क्रमेणोद्देश्यद्वयम् । ननु मनः कथं निर्विषयं
For Private And Personal