SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्मविद्योपनिषत् । ३४३ नखीषु च" इति विश्वः । तस्य मध्ये शङ्खस्यैव मध्येऽर्थाद्वामनेत्रे स्थितः । मकार इत्यत्रापि तस्य मध्य इत्यपेक्ष्यते । शङ्खस्य मध्येऽर्थात्तृतीयनेत्रे व्यवस्थितः । अत एव याज्ञवल्क्येनोक्तम् "इडायां पिङ्गलायां च चरतश्चन्द्रभास्करौ । इडायां चन्द्रमा ज्ञेयः पिङ्गलायां रविः स्मृतः” इति ॥ "जिह्वामूले स्थितो देवः सर्वतेजोमयोऽनलः । तदने भास्करश्चन्द्रस्तालुमध्ये प्रतिष्ठितः । एवं यो वेत्ति तत्त्वेन तस्य सिद्धिः प्रजायते” इति ॥ ८ ॥ मकारश्चाग्निसंकाशो विधूमो विद्युतोपमः।। तिम्रो मात्रास्तथा ज्ञेयाः सोमसूर्यामितेजसः॥९॥ . शिखा च दीपसंकाशा यस्मिन्नुपरि वर्तते । अर्धमात्रा तु सा ज्ञेया प्रणवस्योपरि स्थिता ॥ १०॥ तिलो मात्रा अकारादयः । अनेन काल उक्तः । सोमसूर्याग्नितेजस इत्यनेन वर्णा उक्ताः । यस्मिञ्शंख उपरि तृतीयनेत्रादुपर्यनेनार्धमात्रास्थानमुक्तम् । पद्मसूत्रनिभेति तस्या वर्णा उक्ताः । शिखामा ज्वालाभोर्ध्वतावैशद्याभ्याम् । तथा मूले मूले स्थूलोपयुपरि तन्वी च। "शिखा शिखायां ज्वालायां चूडायामग्रमात्रके । लाङ्गल्यां चापि शाखायां चूडायां च शिखण्डिनः" इति विश्वः । पद्मसूत्रनिभा सूक्ष्मा शिखामा दृश्यते परा। सा नाडी सूर्यसंकाशा सूर्य भित्त्वा तथाऽपरम् ॥ द्वासप्ततिसहस्राणि सूर्य भित्त्वा तु मूर्धनि ॥ ११ ॥ सा नाडी सुषुम्ना तस्या एव वा पूर्वाणि विशेषणानि । सूर्यश्चक्षुरधिष्ठानमथवा सूर्याल्लब्धरश्मित्वान्मनोधिष्ठानचन्द्रः सूर्यस्तं भित्त्वा तथाऽपरमधःस्कन्धे द्विसप्ततिसहस्राणि नाडीभित्वोचं गता। तदुक्तं गोरक्षेण-"ऊर्च मेद्रादधो नाभेः कन्दयोनिः खगाण्डवत् । .. तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः” इति ।। पुनरधिदैवतं सूर्य भित्त्वा मूर्धनि ब्रह्मलोके द्वादशान्ते च दृश्यत इत्यनुषङ्गः । तदुक्तं याज्ञवल्क्येन-तासां मुख्यतमास्तिस्रस्तिसृप्वेकोत्तमोत्तमा । मुक्तिमार्गेति सा प्रोक्ता सुषुम्ना विश्वधारिणी । कन्दस्था मध्यमे मार्गे मुषुम्ना सा प्रतिष्ठिता । पृष्ठमध्यस्थिता नाडी सा हि मूर्ति व्यवस्थिता ॥ . . For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy