SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३२ शंकरानन्दविरचितदीपिकासमेता --- कर्ता भोक्तेत्यादिप्रत्ययैरनुभूयमानः कथं स्वयंप्रकाशः स्यादित्यत आह- साक्षी, अहं सुखी दुःखीत्यादिप्रत्ययानां द्रष्टा । यथा लोके विवदमानानां केषांचित्सुखदुःखभाजामन्यः सुखदुःखरहितस्तेषां द्रष्टा साक्षी । ननु साक्षी चेदात्मा करणादिमानपि स्यादि - त्यत आह--चेता केवलो बोद्धैव न तु शरीरादिमान् । ननु बोद्धा चेज्ज्ञानगुणोऽयं स्यादित्यत आह-निर्गुणश्च गुणगुण्यादिभेदशून्योऽपि चेता केवल इत्यन्वयः । स्वयंप्रकाशमानबोधैकस्वभाव आनन्दात्मेत्यर्थः । नन्वयमेक एतादृशोऽस्तु परमेश्वरस्त्वन्यादृश इत्यत आहएको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मानं येऽनुश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् । एकः परमेश्वराद्भेदशून्यः । स एवायमित्यर्थः । तस्मादयं भेदशून्यस्तमाह । वशी सर्ववशीकरणवान्सर्वनियन्तेत्यर्थः । सर्वभूतान्तरात्मा । व्याख्यातम् । एकं सजातीयभेदरहितम् । रूपमविद्यास्त्ररूपमथवा स्वगतसजातीयविजातीय भेदरहितमेकं रूपमात्मनः स्वयमविद्याविलासैः । बहुधा बहुप्रकारम् । यः प्रसिद्धो मायावी करोति स्पष्टम् । तमात्मानं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् । स्पष्टम् । यदा स्वहं मुक्त ईश्वरोऽस्मीति ज्ञानं न जायते तदा तदुत्पादकमुपायमाहआत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् || आत्मानमन्तःकरणम् | अरणिमधरारणिं कृत्वा विधाय । प्रणवं चोत्तरारणिम् । उत्तरारणिमयोंकारं कृत्वेति चकाराल्लभ्यते । तत्रापि ध्याननिर्मथनाभ्यासात् । ध्यानं प्रणवाभिधेयत्वेन प्रणवालम्बनत्वेन वा ब्रह्मणश्चिन्तनं तदेव निर्मथनमुत्तरारण्याक्रान्तस्य मथन इव निरन्तरं भ्रमणमधरारणौ तस्याभ्यासो यावत्साक्षात्कारमनुवर्तनं तस्मात् । देवं स्वयंप्रकाशमात्मस्वरूपं पश्येत्साक्षात्कुर्यात् । निगूढवत्काष्ठे निगूढोऽझि: काष्ठसंघर्षणेन यथा तद्वत् । यथाऽग्नेर्मथनेन प्राकट्यमिति ॥ दृष्टान्त एक एव चेन्नास्मिन्नादर इत्यत आह तिलेषु तैलं दधनीव सर्पिरापः स्रोतः स्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ तिलेषु तैलम् । स्पष्टम् । यथोपायलभ्यमिति शेषः । दधनीव सर्पिर्घृतं यथा दधन्युपायलम्यमिति शेषः । आपः स्रोतःसु स्त्रोतः शब्दोपलक्षितासु भूनाडीषूदकानि यथोपायलभ्यानीति शेषः । अरणीषु चारणीष्वपि सूर्यकान्तादिष्वित्यर्थः । अग्निर्व I १ च. स्वप्र । २ च चेदयमात्मा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy