________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मोपनिषत् । ननु ब्राह्मणादीनां चेदिदं ज्ञानशिखिनो ज्ञानयज्ञोपवीतिनश्च निर्ब्राह्मण्यमर्थसिद्धमित्यत आह
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ।। शिखा ज्ञानमयी यस्य उपवीतं च । स्पष्टम् । तन्मयं ज्ञानमयम् । ब्राह्मण्यं ब्राह्मणानां भावः । सकलं समग्रमनुपचरितं निःसीमभूतमित्यर्थः । तस्य ज्ञानमयशिखायज्ञोपवीतवतः । इत्यनेन प्रकारेण । ब्रह्मविदो वेदार्थविदो विदुर्जानन्ति । . इदानीमन्तर्गतसूत्रं स्वयमाह
इदं यज्ञोपवीतं तु परमं यत्परायणम् ।
स विद्वान्यज्ञोपवीती स्यात्स यज्ञस्तं यज्विनं विदुः॥ __इदं बुद्धेन॒ष्टु । यज्ञोपवीतं तु परमात्मतादात्म्यलक्षणसामीप्यमागतं जैवमेव कर्तृत्वादिरहितं रूपं न त्वन्यत् । इदंशब्दोक्तमाह-परेममुत्कृष्टम् । यत्प्रसिद्धं स्वयंप्रकाशम् । परायणमविद्यायाः सकार्याया उत्कृष्टाश्रयभूतम् । सः, अनेनोक्तेनाभिन्नः । विद्वानिदमहमस्मीतिज्ञानवान् । यज्ञोपवीती स्यात् । स्पष्टम् । न केवलं यज्ञोपवीती किं तु स उक्तो विद्वान् । यज्ञो दर्शपूर्णमासज्योतिष्टोमादिलक्षणः स्यादित्यनुषङ्गः । तं यज्ञोपवीतिनं विद्वांसं सर्वात्मत्वेन । यज्विनं यागानां कर्तारं विदु नन्ति । ननु तर्हि किमयमनेकरूप इत्याशङ्कय नेत्याह___एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । एको भेदगन्धशून्यः । नन्वयं चेत्प्रतीतः कथं भेदगन्धशून्यो न चेन्नितरामित्यत आह-देवः स्वयंप्रकाशः । कुत्रेत्यत आह–सर्वभूतेषु चतुर्विधजीवभेदेषु । ननु यद्यस्ति कस्मादाबालगोपालं न प्रतीयत इत्यत आह-गूढ आवरणाविद्ययाऽभिमानेन च संवृतः । गूढत्वेन परिच्छेदं प्राप्तं वारयति । सर्वव्याप्याकाशवत्सर्वत्र व्याप्य वर्तमानः । ननु तद्वदेवानात्मा स्यादित्यत आह-सर्वभूतान्तरात्मा सर्वभूतानां चतुर्विधप्राणिनां बुद्धेरभ्यन्तरात्माऽस्मच्छब्दप्रत्ययव्यवहारयोग्यः । अन्तरशब्दो बुद्धिव्यावृत्त्यर्थः ।
ननु ताँ चेत्सुखदुःखयोर्भोक्ताऽयं संसार्येवेत्यत आह___ कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।
कर्माध्यक्षः कर्मणां शुभाशुभफलानां धर्माधर्मरूपाणामध्यक्षो नियन्ता । तथा चेन्नैयायिकाद्यभिमतस्तटस्थ एवायमित्यत आह-सर्वभूताधिवासः सर्वाणि भूतान्यात्मत्वेनाधिकृत्य वसतीति सर्वभूताधिवासः सर्वात्मस्वरूप इत्यर्थः । ननु सर्वात्मा चेदयमहं
१८. यज्ञः स च यज्ञवित् । ए। २ च. 'रमं प्रकृष्ट । ३ च. 'वजन्तुभे'। ४ छ. या यः सुख।
For Private And Personal