________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३३० शंकरानन्दविरचितदीपिकासमेताज्ञाननिष्ठा ज्ञान उक्ते निष्ठा तात्पर्य येषां ते ज्ञाननिष्ठाः । ज्ञानयज्ञोपवीतिनो ज्ञानमुक्तं यज्ञोपवीतं येषामस्ति ते ज्ञानयज्ञोपवीतिनः । ननु बाह्यमपि शिखायज्ञोपवीतादिकमस्त्वित्यत आह
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ज्ञानमेवोक्तमेव न त्वन्यद्बाह्यं शिखायज्ञोपवीतादि । परमुत्कृष्टम्। तेषां परमहंसानाम् । पवित्रं पवित्रताकारणं ज्ञानमुक्तमुच्यते कथ्यते विद्वद्भिर्यतः पवित्रं ज्ञानमुच्यते ततस्तेषां ज्ञानमेव परमत उपपन्नं ज्ञाननिष्ठा ज्ञानशिखिनो ज्ञानयज्ञोपवीतिनो न बाह्यशिखायज्ञोपवीतिन इति योज्यम् । ननु तथाऽपीतरेभ्यः केशधारिभ्यो न्यूनोऽयमुपचरितशिखित्वादित्यत आह--
अग्नरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ३ ॥ अग्नेरिव शिखा नान्या । यथा जातवेदसः शिखा ज्वाला जातवेदःस्वरूपादन्या न तद्वत् । यस्य परमहंसस्य स्वयंप्रकाशचैतन्यस्याऽऽनन्दात्मनः । ज्ञानमय्यहमेवंरूपोऽस्मीत्येतद्बोधमयी शिखा चैतन्यप्रदीप्तिश्चैतन्यादभिन्ना । स ज्ञानमयशिखाधारी । शिखी मुख्यशिखावानग्निवत् । इत्यनेन प्रकारेणोच्यते कथ्यते विद्वद्भिः। विद्वान्बमसाक्षात्कारवान् । नेतरे ज्ञानमयशिखावर्जिता न मुख्यशिखिन इति शेषः । किं तु केशधारिणः स्त्रीशूद्रादिवत् । केशपुञ्जधारिणः केशधारित्वेन चेन्मुख्यशिखित्वं स्त्रीशूद्रादीनोमिव तत्स्यादित्यर्थः ॥ ३ ॥ ननु तहिं सर्वैः शिखायज्ञोपवीतादिकं परित्याज्यमित्यत आह
कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः।
तैः संधामिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ।। कर्मणि सुखफले व्यापारे । अधिकृता ममेदं कर्तव्यमितिबुद्धिमन्तः । ये तु प्रसिद्धा अहं ममाद्यभिमानवन्त एव न त्वन्ये । वैदिकेऽग्निहोत्रादिलक्षणे । ब्राह्मणादयो ब्राह्मण आदिर्येषां ते ब्राह्मणादयस्त्रैवर्णिकास्तैस्त्रैवर्णिकैः संधार्य धारणीयम् । इदं कार्पासादिप्रकृतिकं प्रत्यक्षम् । सूत्रं त्रिवृन्नाभिपरिमाणमित्यादिलक्षणं यज्ञोपवीतम् । तत्र हेतुमाह-क्रियाङ्गम् । “तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा” इति श्रुतेः सर्वक्रियाङ्गतावगमात्क्रियाङ्गम् । तद्बाह्यं यज्ञोपवीतम् । हि यस्मात्रै प्रसिद्धम् । त्रैवर्णिकानां स्मृतं चिन्तितं प्रमाणतोऽवगतमित्यर्थः ।
५ च. "त एवोपपन्नं। २ च. 'नामेत” ।
For Private And Personal