SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनोपनिषत् । सोऽधिकारी । विप्रो द्विजोत्तमः । वेदपारगः शब्दराश्युक्ताभिज्ञः सर्वज्ञ इत्यर्थः । येन सूत्रेण । सर्व निखिलम् । इदं भूतभौतिकप्रपञ्चजातम् । प्रोतं प्रकर्षणोतमनुविद्धं वर्तत इत्यर्थः । तत्र दृष्टान्तमाह-सूत्रे प्रतिद्धे । मणिगणा वैदूर्यमहामरकतमुक्तागोमेदादिमणिसमूहाः । इव यथा । तत्सूत्रं धारयेत् । व्याख्यातम् । योगी जीवब्रह्मतादात्म्यज्ञानवान् । योगविद्यतो योगी ततो योगस्याष्टाङ्गस्य षडङ्गस्य वा सफलस्य वेत्ता योगवित् । तत्त्वदर्शिवान्नित्यानित्यवस्तुविवेकवान् । इदानी पूर्वोक्ते शिखायज्ञोपवीतत्याग उक्तयोगसाहित्यमाह बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।। बहिःसूत्रं त्यजेत् । व्याख्यातम् । विद्वान्बुधः । योगं जीवब्रह्मतादात्म्यसंबन्धम् । उत्तममुत्कृष्टम् । आस्थितस्तद्बोधेन सर्वतस्तत्र वर्तमानः । इदानीमस्य धारणे सर्वदा पवित्रतामाह ब्रह्मभामिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ।। ब्रह्मभावं ब्रह्मणो भावः सत्ता यस्मिंस्तद्ब्रह्मभावमिदम्, बुद्धेर्द्रष्टा । सूत्रमुक्तम् । धारयेत् । व्याख्यातम् । योऽधिकारी । सचेतनो ज्ञानसहितः । धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् । उच्छिष्टः शरीरद्वाराऽन्नप्रवेशनिर्गमनाम्याम् । अशुचिर्मनोवाकायपापात् । स्पष्टमन्यत् । इदानी बाह्यशिखायज्ञोपवीतरहिता अपि परमहंसाः शिखिनो यज्ञोपवीतिनश्चेत्याह सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ सूत्रमुक्तं बुद्ध्याऽन्तर्गतं शरीरान्तर्वर्तमानं न येषां परमहंसानां ज्ञानयज्ञोपवी. तिनामहं ब्रह्मास्मीतिबोधयज्ञोपवीतिनां ते वै त एवान्तःसूत्रधारिणो ज्ञानयज्ञोपवीतिन एव न त्वन्ये । सूत्रविद उक्तसूत्रज्ञानवन्तः । लोके जने । ते चोक्तसूत्रविदः । यज्ञोपवीतिनो नित्यप्रसिद्धयज्ञोपवीतवन्तः । चशब्दाच्छिखिनश्च । ननु सकृच्छिखां यज्ञोपवीतं च त्यक्त्वा किं पुनरन्यद्बाह्यमादेयमित्याशङ्कय नेत्याह ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ॥ ज्ञानशिखिनः । ज्ञानमहं ब्रह्मास्मीति बोधः शिखा येषामस्ति ते ज्ञानशिखिनः । १ छ. राशियुक्तो भिक्षुः । स । २ इ. शितवा । ३ इ. च. सदा । ४ दु. वमयं स । . For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy