________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८ शंकरानन्दविरचितदीपिकासमेता
किं यज्ञोपवीतम् । यज्ञस्य विष्णोः परमात्मन उप सामीप्येन वीतं विविधमागतं जीवस्वरूपं यज्ञोपवीतम् । परममुत्कृष्टम् । पवित्रं सर्वपवित्रभूतम् । प्रजापतेः प्रजानां पालयितुः । यत्प्रसिद्धं सर्वव्यवहारकारणम् । सहजं स्वभावभूतम् । अथवा देहेन्द्रियादिभिः सहोत्पन्नम् । पुरस्तात्पूर्वम् । आयुष्यमायुष्करम् । अयं श्रेष्ठम् । प्रतिमुश्च सर्वतोऽविद्यादिभ्यो विमोक्षं कुरु । शुभ्रमुज्ज्वलं कर्तृत्वादिमुक्तमित्यर्थः । यदृदि चैतन्ये तिष्ठति यज्ञोपवीतं तत्प्रतिमुञ्चेति योज्यम् । यस्मादेवं हृदि चैतन्ये तिष्ठति यज्ञोपवीतं तस्माद्धृदयस्योपरि बहिर्विधार्यमाणं त्रैवर्णिकैरिदं यज्ञोपवीतं यज्ञोपवीतस्था• नत्वानिवृत्कार्पासादिसूत्र वलं वीर्यवत्कर्मकारणमस्तु भूयात् । तेजो ब्रह्मवर्चसादि । उभयं भूयादिति योजनीयम् । यस्माद्बाह्यमपि यज्ञोपवीतं यज्ञोपवीतसामीप्यात्तस्माज्जैवमेव रूपं कर्तृत्वादिविनिर्मुक्तं मोक्षयोग्यम् । हृदयकमलस्थे देशकालवस्तुपरिच्छेदशन्ये स्वयंप्रकाशचैतन्यैकरसे वर्तमानं मुख्यं यज्ञोपवीतमिति तात्पर्यार्थः । एवमुपपत्तीरभिधायेदानीमन्त्याश्रमं पारमहंस्यं विधत्ते
सशिखं वपनं कृत्वा बहिःसुत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ।। सशिखं शिखासहितम् । केशश्मवादेवपनं मुण्डनं कृत्वा विधाय । बहिःसूत्र कण्ठे विधार्यमाणं कार्पासं त्रिवृत्सूत्रं बहिःसूत्रं त्यजेत् । बुधो नित्यानित्यवस्तुविवेकादिमान् । यत्प्रसिद्धम् । अक्षरमविनाशि तुरीयम् । परमुत्कृष्टम् । ब्रह्म देशकालवस्तु. परिच्छेदशून्यम् । तदुक्तं परं ब्रह्म । सूत्रं त्रिवृत्सूत्रं यज्ञोपवीतं यथाव्याख्यातम् । इत्यनया बुद्ध्यो धारयेत् । ननु ब्रह्मसूत्रमिति कथं विधारणीयमित्यत आह
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । सूचनात्सर्वजगत्पटारम्भकत्वात् । सूत्रं सूत्रशब्दाभिधेयम् । इत्यनेन प्रकारेणाऽऽहुः कथयन्ति ब्रह्मविदो यतस्ततः सूत्रं सत्रशब्दाभिधेयम् । नाम प्रसिद्धम् । परमुत्कृष्टम् । पदं पद्यते गम्यतेऽहं तदस्मीति पदम् । इदानीमिदं ज्ञेयमित्येतदर्थमाह
तत्सूत्रं विदितं येन स विप्रो वेदपारगः । येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।
तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥ तदुक्तं सूत्रं परमं पदं विदितमहमस्मीति साक्षात्कृतम् । येनाधिकारिणा ।
१ व. दिविमु । २ इ. 'या विधा।
For Private And Personal