SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shr Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्मोपनिषत् । ३२७ ननु तत्र लोकादीनामभावः कथमित्यत आह इत्येकमेव तत्परं ब्रह्म विभाति निर्वाणम् । इत्येकमेव खगतसजातीयविजातीयभेदशून्यं न तु लोकादिकम् । तत्प्रसिद्धम् । परमुत्कृष्टम् । ब्रह्म देशकालवस्तुपरिच्छेदशून्यम् । विभाति विशेषेण प्रतीयते । निर्वाणं निर्गतं वाणं स्थूलं शरीरं दुर्गन्धविनाशक तत्वेन पलक्षितमज्ञानं सकार्य ससंस्कारं च यस्मात्तन्निर्वाणम् । न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति ॥ १ ॥ न तत्र तस्मिन्ब्रह्मणि निर्वाणे । देवा अग्नीन्द्रादयः । ऋषयो वसिष्ठदुर्वासःप्रभृतयः । पितरोऽग्निप्वात्तादयः । ईशते नियन्तृनियम्यभावेन न समर्था भवन्ति । किं वेक एवं प्रतिबुद्धोऽहं ब्रह्मास्मीतिप्राप्तसाक्षात्कारः समर्थ आत्मत्वेनावगन्तुं भवतीति शेषः । सर्वविद्या सर्वस्य सर्वात्मनः सर्वा वा सर्वपुरुषार्थपरिसमाप्तिहेतुत्वाद्विद्या यथाभूतार्थप्रकाशः सर्वविद्या । इत्यनेन प्रकारेण । उक्तेति शेषः ॥ १ ॥ उक्ता विद्या संन्यासपुरःसरं श्रवणादिकमन्तरेण न लभ्यत इति संन्यासं विधातुं पीठिका रचयति हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् । हृदिस्था हृदयस्थाः । हृदयकमले सर्वदेवात्मकसर्वगतानन्दात्मोपलम्भकबुद्धेवर्तमानत्वात् । देवता अग्निपृथिव्याद्याः । सर्वा निखिलाः । हृदिस्थत्वे देवतानां हेतुमाहहृदि हृदयकमले पञ्चच्छिद्रे। प्राणाः प्राणापानव्यानसमानोदानाः सर्वदेवतात्मना सूत्रात्मनाऽभिन्नाः सचक्षुःश्रोत्रवागन्तःकरणत्वचः । आदित्यचन्द्रमोग्निपर्जन्याकाशाः प्राग्दक्षिणपश्चिमोत्तरमध्यच्छिद्रवार्तनः । प्रतिष्ठिताः विधात्रा प्रकर्षेण स्थापिताः । हृद्युक्ते हृदयकमले । प्राणश्च नासापुटसंचारी वायुः । ज्योतिश्च स्वयंप्रकाशं परं ब्रह्मापि । चकारौ बुद्धेरबुद्धेश्च हृदयेऽवस्थानं दर्शयतः । त्रित्रीणि प्राणाः प्राणो ज्योतिरिति संचरणानि यस्मिंस्तत्रिवृत् । सूत्रं च यन्महत् । जगत्पटारम्भकत्वेन सूत्रमपि । चशब्दात्सर्वनडाजडमपि । तत्रिवृत्सूत्रं विदु नन्ति बहिःसूत्रत्यागिनः परमहंसाः । हृदि चैतन्ये तिष्ठति । अपि च हृदि हृदयकमलस्थे चैतन्ये संसारमहेन्द्रजालप्रकाशे स्वयंप्रकाशे तिष्ठति स्पष्टम् । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज पुरस्तात् । आयुष्यमयं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy