________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२६ शंकरानन्दविरचितदीपिकासमेताविविधानि रूपाण्याह
जागरितं स्वमं सुषुप्तं तुरीयामिति जागरिते ब्रह्मा स्वमे विष्णुः सुषुप्ते रुद्रस्तुरीयमक्षरं स आदित्यः स पुरुषः सै विष्णुश्चेश्वरश्च । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्विदितं यत्र लोका नलोका देवा नदेवा वेदा नवेदा यज्ञा नयज्ञा माता नमाता पिता नपिता स्नुषा नस्नुषा चाण्डालो नचाण्डाल: पौल्कसो नपौल्कसः श्रमणो नश्रमणस्तापसो नतापसः । जागरितं स्वमं सुषुप्तं तुरीयमिति । जागरित इन्द्रियैर्बाह्यविषयोपलम्भावसरे । ब्रह्मा नाभिदेशस्थश्चतुराननो जगतः कर्ता । स्पष्टम् । स्वप्ने वासनारूपविषयसेवने । विष्णुापनशीलः शङ्खचक्रगदाधरो हृदयस्थः स्थितेः कर्ता । सुषुप्ते निद्राभिभूते करणग्रामेऽशेषविशेषबोधशून्ये । रुद्रो रोदयति नाशयति विश्वं कार्यमिति रुद्रः संहारस्य कर्ता कण्ठस्थः । तुरीयं चतुर्थम् । अक्षरं विनाशरहितं व्याप्तं वा मूर्धस्थम् । यद्यपि नेत्रे कण्ठे हृदये मूर्धनि जागरितादीनि वक्ष्यति तथाऽप्यत्र नाभ्यादीनामुक्तत्वादुपलब्ध्यर्थमेवं चिन्तनीयम् । अथवा नाभ्यादि यथाक्रम परित्यज्य नाभिर्नेनं च समच्चयेन विकल्पेन वा जागरितस्थानम् । कण्ठं स्वप्नस्य हृदयं सुषुप्तस्येति । स तुरीयोऽक्षर आत्माऽविद्ययाऽऽदित्य आदित्यमण्डलस्थः । पुरुषो ब्रह्मा विष्णुश्व व्यापनशीलः स्थितेः कर्ता । चकारादन्यदपि चेतनम् । ईश्वरश्च सर्वसंहारकर्ता नियन्ता । चशब्दा. दचेतनमपि । स्वयं खेनाविद्याव्यतिरिक्तेन रूपेण । अमनस्कं मनोरहितम् । अश्रोत्रं श्रोत्ररहितम् । उपलक्षणमिदं चक्षुरादिराहित्यस्य । अपाणिपादं करचरणविवर्जितम् । इदमुपलक्षणं पात्रादिराहित्यस्य । ज्योतिः प्रकाशस्वभावं विदितं स्वयंप्रकाशमानम् । यत्र यस्मिन्नक्षरेऽमनस्कादिरूपे । लोकाः कर्मफलानि । नलोकाः। स्पष्टम् । देवा अग्न्यादयो वागादयश्च । नदेवाः स्पष्टम् । वेदा ऋगाँयाः । नवेदाः । स्पष्टम् । यज्ञा दर्शपूर्णमासज्योतिष्टोमाद्याः । नयज्ञाः स्पष्टम् । माता जननी। नमाता स्पष्टम् । पिता जनकः । नपिता स्पष्टम् । स्नुषा पुत्रभार्या । नस्नुषा स्पष्टम् । चाण्डालो ब्राह्मण्यां शूद्राजातश्चण्डालः । चण्डाल एव चाण्डालः । नचाण्डालः। स्पष्टम् । पोल्कसः । क्षत्रियायां शूद्राज्जातः पुल्कसः । अन्यो वोत्तमयोनावधमबीजजः । पुल्कस एव पौल्कसः । नपोल्कसः स्पष्टम् । श्रमणः संन्यासी। नश्रमण: स्पष्टम् । तापसस्तपःप्रधानो वानप्रस्थः । नतापसः स्पष्टम् ।
१ . रीयं परमाक्ष । २ ङ. 'दित्यश्च विष्णुश्चेश्वरश्च स पु। ३ ङ. स प्राणश्चे । ४ ङ. 'ष्णुश्च स जीवः सोऽग्निः सेश्व' । ५ श्च । जाग्रत्तेषां मध्ये यत्परं ब्रह्म विभाति । स्व' इति नारायणपाठः। ६ च स्रष्टा । ७ च. 'गादयः । न । ८ च. वनस्थः ।
For Private And Personal