SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२५ ब्रह्मोपनिषत् । महिमा बभूव यो ह्येष महिमा बभूव क एषः । तस्मै स होवाच ब्रह्मविद्या वरिष्ठाम् । प्राणो ह्येष आत्मा । आत्मनो महिमा बभूव देवानामायुः स देवानां निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मधुकरराजानं माक्षिकवद्यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथैवैष प्राणो यदा याति संसृष्टमाकृष्य माणदेवतास्ताः सर्वा नाड्यः सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो यष्ट्याऽपि ताड्यमानो नयत्येवमिष्टापूतः शुभाशुभैर्न लिप्यते यथा कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वम आनन्दमभियाति वेद एवं परं ज्योतिर्योतिष्कामो ज्योतिरानन्दयते भूयस्तेनैव स्वमाय गच्छति जलौकावद्यथा जलौकाध्यमग्रं नयत्यात्मानं नयति परं संघय यत्परं नापरं त्यजति सजाग्रदभिधीयते यथैवैष कपालाष्टकं संनयति तमेव स्तन इव लम्बते वेददेवयोनिः । यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य ससंप्रसारोऽन्तर्यामी खगः कर्कटकः पुष्करः पुरुषः पाणो हिंसा परापरं ब्रह्म । आत्मा देवता वेदयति य एवं वेद स परं ब्रह्मधाम क्षेत्रज्ञमुपैति] ॥१॥ त्वं ब्रह्मासीत्युक्तेऽनधिकारिणः कर्तृत्वादिविपरीतज्ञानवतोऽयोग्यत्वेन बोधो न मायते ततोऽस्य बोधोत्पादनार्थ नाम्यादीनि स्थानान्युररीकृत्य विविधोपायमाह * अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति ___ अथ, उपनिषदारम्भे मङ्गलप्रयोजनोऽथशब्दोऽधिकारिणमाह । अधिकारिसंपत्त्यनन्तरं ब्रह्मविद्यां सोपायां कथयिष्यामीति शेषः । अस्य बुद्धेष्टुः स्वयंप्रकाशस्य । पुरुषस्य परिपूर्णस्य । उपलब्ध्यर्थानि चत्वारि स्थानानि भवन्ति । स्पष्टम् । न तानि देशान्तरे किं त्वस्मिश्शरीर इत्याह नाभिर्हदयं कण्ठं मूर्धा च तत्र चतुष्पादं ब्रह्म विभाति नाभिर्नाभिसरोरुहकन्दः । हृदयं हृदयपुण्डरीकम् । कण्ठं कण्ठगतं विशुद्धचक्रम् । मूर्धा च मस्तकस्थं चन्द्रमण्डलं दशमद्वारं वा । चकाराच्चक्षुरादीन्यपि स्थानान्युपासनान्तरेषु । तत्र तेषु चतुष्पादं चतुप्पात्स्थानचतुष्टयाश्रयत्वाद्गोवत् । ब्रह्म बृहद्देशकाल. वस्तुपरिच्छेदशून्यम् । विभाति विविधै रूपैः प्रतीयते । * इत आरभ्य शंकरानन्दव्याख्यारम्भः । १ ग. घ. मधेति। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy