SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताएतज्ज्ञानस्य फलं सर्वज्ञतामाह सं विभोः प्रजा ज्ञायेरन् । सं विभोरिति । विभोः प्रजाः सम्यग्ज्ञायेरन्यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीत्यर्थः । यच्छान्दोग्ये- "स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते' इत्यादि । फलान्तरमाह न तत्र देवों ऋषयः पितर ईशते प्रतिबुद्धः सर्वविदिति ॥ २॥ न तत्रेति । तत्र ज्ञानिनो देवा ऋषयः पितरश्च नेशते । ऋणत्रयातीतो भवतीत्यर्थः । प्रतिबुद्धो यः सर्ववित्सर्वमात्मत्वेन बुद्धवान् । न ह्यात्मन एव भयं भवतीतिहेतोः ॥ २ ॥ __ विदितवेदितव्यस्य संन्यासं विवक्षुर्वाह्यदेवपूजादित्यागः साहसमित्याशङ्कयान्तेरव सर्वमस्तीति प्रतिपादयति मन्त्रः हादिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥ हृदिस्था इति । देवता ब्रह्मादय इन्द्रियाधिष्ठातारश्च । प्राणा वागादयः । प्राणो मुख्यप्राणः । ज्योतिर्विषयप्रकाशः शुद्धं ब्रह्म च । सर्वमूलभूतमव्यक्तमपि हृद्येवास्तीत्याह-त्रिदिति । सत्त्वरजस्तमसां परस्परसंकरेण नवगुणमव्यक्तं त्रिवृत्सर्वकर्माङ्गं बा हार्थे नवतन्तुकं च सूत्रं प्रकृतिस्तन्तवश्च । महदव्याकृतं निप्पन्नमुपवीतं च । हृदि प्राणश्चेति । हृदि चैतन्ये तिष्ठति । मन्त्रस्थं हृदीति पदं व्याचष्टे-हृदि चैतन्ये तिष्ठतीति । स्थूलोपवीतस्य वाचकं परिधानमन्त्रमाह यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज पुरस्तात् । आयु प्यमयं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥ यज्ञेति । प्रतिमुञ्च परिधेहि । हे शिष्य बलं बलप्रदं तेनस्तेजःप्रदं चास्तु तवेति मन्त्रार्थः । अयं मन्त्रोऽपि हृदि चैतन्ये तिष्ठतीत्यन्वयः । कर्माङ्गभूतैतदुपवीतत्यागेन संन्यासयोगमाह सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेबुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ ५ ख. प्राजाः संज्ञा । ग. प्राजाः संविज्ञा । २ ग "वा लोका क' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy