________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१८ नारायणविरचितदीपिकासमेता
कथं ज्ञायते जाग्रदेव वेददेवयोनिन स्वप्नादिरिति तत्राऽऽह___ यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य स संप्रसारोऽन्तर्या- मी खगः कर्कटकः पुष्करः पुरुषः प्राणो हिंसा परापरं ब्रह्म
योति । यत्र जाग्रति स्थानेऽस्य देवस्य शुभाशुभं निरुक्तं नितरामुक्तं शुभाशुभफलं च वेददेवाधीनं तेन जाग्रदुत्पन्नेति भावः । नितरामुक्तमित्युक्तत्वात्स्वप्नेऽपि कियानपि फलसंवन्धो भवतीति लक्ष्यतेऽत एव स्वप्ननिमित्तरेतःस्खलनादौ प्रायश्चित्तस्मरणं शास्त्रे । स देवः । संप्रसारः सम्यक्प्रसारोऽस्माल्लोकस्येति । अन्तर्याम्यन्तःस्थितो नियच्छति । वागादीनयं संयच्छतीत्यस्योपसंहारः । खगो देशान्तरवस्तुग्राहित्वात् । कर्कटो जलचरः प्राणिभेदः स इव कामितया वक्रगतित्वात्कर्कटकः । पुष्करः पुष्टिकरः । यद्वा पुष्करं गगनं तद्वत्स्वच्छः । पुरुषः पुरि देहे वसति । प्राणः प्राणनकर्ता तेन प्राणीत्युच्यते । हिंसा हिंसात्मको हिंस्रः । परापरं परं कारणमपरं कार्यम् । सगुणनिगुणभेदेन वा । स एव ब्रह्म । तर्हि किं देहिनो भिन्नं नेत्याह
आत्मा देवता वेदयति । आत्मा प्रत्यक्तेन ब्रह्मात्मनोरभेद इत्यर्थः । सा देवता वेदयति. सर्व चेतनत्वात् "नान्योऽतोऽस्ति द्रष्टा" इति श्रुतेः । फलमाह
__य एवं वेद स परं ब्रह्म धाम क्षेत्रज्ञमुपैति ॥ १॥ य एवमिति । धाम सर्वाधारं प्रकाशात्मकं वा । क्षेत्रज्ञं साक्षिणम् । उपैतिः खात्मतया प्रतिपद्यते ॥ १॥
अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिहृदयं कण्ठं मूर्धति ।
पुरुषस्योक्तलक्षणस्य स्थानानि । तत्र ध्याने सति शीघ्रमभिव्यक्तेः । नाभिर्मणिपूरचक्रम् । हृदयमनाहतम् । कण्ठं कण्ठो विशुद्धिचक्रम् । मूर्धाऽऽज्ञाचक्रम् । आधाराधनेकध्यानस्थानसत्त्वेऽपि प्राशस्त्यार्थ चतुर्णा ग्रहणम् । यदुक्तम्-"आधारे प्रथमे चक्रे द्रुतकाञ्चनसंनिभे ।
नासाग्रदृष्टिरात्मानं ध्यात्वा योगी सुखी भवेत् ॥ स्वाधिष्ठाने शुभे चक्रे सन्माणिक्यशिखोपमे ।
नासाग्रदृष्टिरात्मानं ध्यात्वा योगी सुखी भवेत्" इत्यादि । ननु किमित्येतान्येव स्थानानि निर्दिश्यन्ते नाऽऽधारादीनीत्यत आह
तत्र चतुष्पादं ब्रह्म विभाति ।। तत्रेति । तत्र तेषु स्थानेषु विभाति विशेषेण भात्यल्पायासेन प्रकाशते ।
For Private And Personal