SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्मोपनिषत् । ३१७ इदानी खप्नावस्थामाह ___ भूयस्तेनैव स्वमाय गच्छति भूय इति । येनैव पथा सुषुप्तिं गतस्तेनैव प्रत्यावृत्य स्वप्नाय स्वप्नं प्राप्तुं गच्छति । जलौकावत् । जलौकावदिति । जलौका तृणजलौका तृणस्थः कीटविशेषः । दृष्टान्त विवृणोति यथा जलौका प्रमग्रं नयत्यात्मानं नयति परं संधय । यथेति । सा यथाऽयं पादानमग्रं तृणाग्रदेशं नयति प्रापयति पादाभ्यां गृह्णीते गृहीत्वा तत्राऽऽत्मानं देहं नयति स्वयं गच्छति तत्रेत्यर्थः । किं कृत्वा परं संधाय । परमग्रे वर्तमानं तृणादिकं संधय संधायाभिप्रेत्येत्यर्थः । छान्दसं धातोहूंस्वत्वम् । अयमर्थः । सा यथोत्तरं गृहीत्वैव पूर्व त्यजत्येवमयं स्वप्नदेहाद्यालम्ब्यैव पूर्वावस्थां सुषुप्त्यादिरूपां त्यजति जाग्रदाद्यालम्ब्यैव स्वप्नादि त्यजति । एवं मरणे देहान्तरमालम्ब्यैव पूर्वदेहं त्यजति । तदुक्तम्- "यथा तृणजलौकैवं देही कर्मानुगोऽवशः" इति । तथा “यथा तृणजेलौका तृणस्यान्तं गत्वा" इत्यादिश्रुतिश्च । इदानीं भाग्रस्थानमाह ___यत्परं नापरं त्यजति स जाग्रदभिधीयते । यत्परमिति । यद्यत्र परमुत्तरमपरं पूर्व न त्यजत्यवस्थात्रितयानुगतं यत्र पश्यति स जाग्रदभिधीयते जाग्रति हि स्वप्नसुषुप्तयोरप्यनुसंधानं भवति । यद्वा यद्यत्र परं धर्ममपरमधर्म न त्यजति शुभाशुभाधिकारी भवति स जाग्रत्स्वप्ने तु कृतं शुभाशुभं न फलति । नन्वेकस्यानेकावस्थाश्रयत्वं कथमित्याशङ्कय दृष्टान्तमाह यथैवैष कपालाष्टकं संनयति । यथेति । एष देवतादिर्यथाऽष्टौ कपालानि संनयति समकालं वहति तथैकोऽप्या. स्माऽनेकावस्थां वहतीत्यर्थः । ननु संकोचविकाशात्मकमवस्थात्रयं कथमेकरूप आत्मनीत्याशङ्कय दृष्टान्तेन साधयति तमेव स्तन इव लम्बते वेददेवयोनिः । तमेवेति । तमेवाऽऽत्मानमाविर्भावतिरोभावस्वभावमप्यवस्थात्रयं लम्बते श्रयति स्तन इव संकोचविकाशात्मक एकरूपां स्त्रियम् । स जाग्रदेव वेददेवयोनिर्वदयोनिर्देवयोनिश्च । १ ङ. जलायुका । २ क. ग. म्बत एष वे। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy