SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतातस्मा इति । स पिप्पलादः । ह प्रसिद्धौ । उवाच परितो बभाषे । ब्रह्मविद्याम् । सर्वैरपि प्रश्नैब्रह्मण एव पृष्टत्वाद्ब्रह्मविद्येयम् । वरिष्ठामतिशयेनोवीम् । प्राणो ह्येष आत्मा । प्राणो ह्येष इति । किं भौतिको नेत्याह-आत्मा। यस्मिन्देवाः प्रतिष्ठिता यद्वलेन च सृजन्ति यस्यैष महिमा यच्च महिम्नस्तत्त्वं स एष आत्मेत्यर्थः । सामान्येनेदं चतुर्णामप्युत्तरम् । आत्मनः प्राणत्वं प्राणाश्रयत्वात् । अत एव तथा प्राण इति भगवत्सूत्रम् । आत्मनो महिमा बभूव । विशेषेण तृतीयस्योत्तरमाह-आत्मन इति । प्रथमस्य विशेषमाह देवानामायुः देवानामिति । देवानां वागादीनामायुर्जीवितमात्मा "को ह्येवान्यात्कः प्राण्याद्यघेष आत्माऽऽनन्दो न स्यात्" इति श्रुतेः । आत्मसत्तयैव तेषां सत्तालाभात् । तदेव विवृण्वन्नाह स देवानां निधनमनिधनं स इति । निधनं मरणमनिधनं जीवितं तद्धेतुरित्यर्थः । दिव्ये ब्रह्मपुरे स वास्तीत्याशङ्कयाऽऽह-दिव्ये ब्रह्मपुरे । चतुर्थमुत्तरयति विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति । विरजमित्यादि । यद्ब्रह्म परमात्मा विभाति प्रकाशते तद्विरजं निरवद्य तत्त्वम् । निष्कलं कलाऽविद्याकार्य प्राणादि तद्रहितम् । निषेधमुखेनोक्त्वा विधिमुखेनाप्याहशुभ्रमुज्ज्वलं प्रकाशात्मकम् । अक्षरम् । अनुते व्याप्नोति "अश्नोतेर्वा सरोऽक्षरम्" इति स्मृतेः । कथं सृजन्तीत्यस्य द्वितीयस्योत्तरं स इति । नियच्छति नियमनं करोति। नियमनं बृहदारण्यकेऽन्तर्यामिब्राह्मणे- "यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्माऽन्तर्याम्यमतः" इत्यादिचतुर्विशतिभिः पर्यायाख्यातं तत्र प्रत्येकं पृथिव्यादीनां नियमनमुक्तम् । अत्र तु बैकध्येनाऽऽह मधुकरराजानं मधुकरराजानमिति । मधृकरा इन्द्रियाणि तेषां राजानं तदभिमानिनं जीवं निय १ख. पुरे। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy