SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ब्रह्मोपनिषत् | ३१५ च्छति । तेन सर्वाणि नियतानीत्युक्तं भवति । समासान्तविधेरनित्यत्वादृन कृतः । एकस्य संघनियन्तृत्वे दृष्टान्तमाह Acharya Shri Kailashsagarsuri Gyanmandir माक्षिकवत् । माक्षिकवदिति । मक्षिकाभिर्जीवति माक्षिक ऊर्णनाभो लूता कीटविशेषस्तद्वत् । विवृणोति - -- यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथैवैष माणो यदा याति संसृष्टमाकृष्य । यथेति । यथा माक्षीका । छान्दसमिकारस्य दीर्घत्वं टाप्च । लूता, एकेन सन्तुना नालरूपेण द्वारेण जालं स्वकुलायं विक्षिपति स्वशरीराद्वहिः करोति तेनैवैकेन तन्तुनाऽपकर्षति तत्स्थानादन्तर्णयति च । वक्ष्यति ऊर्णनाभिर्यथा तन्तुं सुजते संहरत्यपि । स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः" इतिः । लूतास्थानीय आत्मा तन्तुस्थानीयः प्राणो जालस्थानीयं वागादि । यथाऽयं दृष्टा'न्तस्तथैवैष प्राणो यदा याति गच्छति तदा संसृष्टमाकृष्य गच्छति वागादिसंघातं गृहीत्वैव याति । यथोक्तम् —यथा मुहयः पड्वीशशङ्कनसंखिदेदेवमितरान्प्राणान्समखिदत्" इति । 1 ननु वागाद्याकर्षणे प्राणस्य तैः कः संबन्ध इति प्रश्ने नाडीद्वारक इत्युत्तरिते नाडीभिः प्राणस्य कः संबन्ध इति शङ्का स्यात्तामपनेतुमाह त्राणदेवतास्ताः सर्वा नाड्यः प्राणेति । प्राणो देवता यासां ताः प्राणदेवतास्ताः पूर्वोक्ताः सर्वा नाज्यः सुषुनादयः । यातीत्युक्तं तत्कदेत्यपेक्षायामाह - सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेकं सुषुप्तो सुष्वप इति । सुतरां स्वप्नं सुपुप्तिस्तत्र सुषुप्तिकाले यातीत्यर्थः । एतन्मरणमूर्छा - देरप्युपलक्षणम् । क्व यातीति प्रभे स्वालयं यातीत्युत्तरं तत्र दृष्टान्तः श्येनाकाशवदिति । विवरणं यथेति । श्येनं श्येनो यथा खमाकाशमाश्रित्य स्वालयं याति तथा सुप्तोऽपि स्वयं ब्रह्म याति । कथं ज्ञायते स्वालयं ब्रह्म याति न यत्र कुत्रचिदिति पृष्ट उत्तरमाह ब्रूते । श्रुत इति । उत्थितः सन्सुखमहमस्वाप्समिति लोकान्वदति तेनाऽऽनन्दं स्वालयं गत आनन्दाचाssगत इति ज्ञायते । आनन्दश्च ब्रह्म । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy