SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पाणाग्निहोत्रोपनिषत् । मुख इति । तदुक्तम् "जिह्वामूले स्थितो देवि सर्वतेजोमयोऽनलः । तदने भास्करश्चन्द्रस्तालुमूले प्रतिष्ठितः" इति ॥ तृतीयमाह शारीरोऽग्निर्नाम जराप्रणुदा हविर विस्कन्दत्यर्धचन्द्राकृतिर्दक्षिणाग्निर्भूत्वा शारीर इति । शारीरो जठराग्निः शुभाशुभभोक्ता । जराप्रणुदा जरां प्रणुदति कनिन्प्रत्ययः । “अजरो न नीवो म्रियते" इति श्रुतेः । हृदये तिष्ठति । हृदय इति । तदुक्तम्-"हृत्सरोरुहमध्येऽस्मिन्" इत्युपक्रम्य "विश्वाचिषं महावहिं ज्वलन्तं विश्वतोमुखम्" इत्यादि । हविर्भुक्तमविस्कन्दत्यवस्कन्दयति शोषयति तद्रसं गृह्णातीत्यर्थः । तत्र कोष्ठाग्निर्नामाशितपीतलीढखादि तानि सम्यक्पयित्वा गार्हपत्यो भूत्वा तत्र कोष्ठाग्निरिति । य उक्तः स निरूप्यत इति शेषः । प्रतिज्ञातमर्थ दर्शयतिकोष्ठाग्निर्नामेति । अशितं चोष्यं लीढं लेह्यम् । नाभ्यां तिष्ठति । प्रायश्चित्तीयस्त्वधस्तात्त्रियस्तिस्रः। नाभ्यामिति । तदुक्तम्- "नाभिमध्ये भवत्येष भास्करो दहनात्मकः" इति । प्रायश्चित्तीयस्त्वधस्ताद्वर्तते सर्वेषामिति शेषः । तदुक्तम्-"त्रिकोणं च पुरं. वढेरधो मेढ़ादवस्थितम्" इति । स्त्रियस्तिस्रो यस्य वर्तन्त इति शेषः । नाडीनां बाहुल्येऽपि मुख्या नाड्यस्तिस्र एवेडा पिङ्गला सुषुम्ना । ताभिः किं करोतीत्यत आह हिमांशुप्रभा प्रजननकर्मा ॥२॥ हिमांश्चिति । हिमांशोर्ललाटस्थचन्द्रमण्डलान्नाडीद्वारा चूताभिः प्रभाभिः शुक्ररूपाभिः प्रजननं प्रजोत्पत्तिः कर्म यस्य स तथा । पुंलिङ्गं ह्यग्निकुण्डमध्येऽस्ति तेनाग्निकुण्डे पतितं शुक्र प्राणेनाऽऽकृष्टं लिङ्गाग्रेण गर्भाशयं प्रविश्य प्रजा भवति तेनानीपोमात्मकं शरीरमुच्यते ॥ २ ॥ अस्य शारीरयज्ञस्य यूपरशनाशोभितस्य को यजमानः का पत्नी । १ क ख. ग. 'प्रभः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy