SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताशारीरयज्ञस्य यूपेनोकारेण रशनयाऽऽशया शोभितस्योपकरणानि पृच्छ्यन्ते. पृष्ठ घोत्तर्यन्ते क्वचित्क्रमेण क्वचिद्वयुत्क्रमणानास्थया । दृष्टिसंपादन एव तात्पर्यात् । क ऋत्विजः के सदस्याः कानि यज्ञपात्राणि कानि हवींषि का वेदिः कोत्तरवेदिः को द्रोणकलशः को रथः कः पशुः कोऽध्वर्युः को होता को ब्राह्मणाच्छंसी का प्रतिप्रस्थाता का प्रस्तोता को मैत्रावरुणः क उद्गाता का धारा का पोता के दर्भाः कः सुवः काऽऽज्यस्थाली कावाघारौ कावाज्यभागौ के प्रयाजाः केऽनुयाजाः केडा कः सूक्तवाकः कः शंयुवाकः का दया का हिंसा के पत्नीसंयाजाः को यूपः का रेशना का इष्टयः का दक्षिणा किमवभृ थमिति ॥३॥ क ऋत्विज इति सामान्यप्रश्नः । कोऽध्वर्युरित्यादिविशेषप्रश्नः । धारा पोतो()पकरणविशेषः । इडा पात्रविशेषः । केडा का इडा ॥ ३ ॥ अस्य शारीरयज्ञस्य यूपरशनाशोभितस्याऽऽत्मा यजमानो बुद्धिः पत्नी वेदा महत्विजोऽहंकारोऽध्वर्युश्चित्तं होता प्राणो ब्राह्मणाच्छंस्यपानः प्रतिप्रस्थाता व्यानः प्रस्तोता समानो मैत्रावरुण उदान उद्गाता शरीरं वेदिर्नासिकोत्तरवेदिमूर्धा द्रोणकलशो दक्षिणहस्तः सुवः सव्यहस्त आज्यस्थाली श्रोत्रे आघारौ चक्षुषी आज्यभागौ ग्रीवा धारापोता तन्मात्राणि सदस्या महाभूतानि प्रयाजा भूतान्यनुयाजा जिद्वेडा दन्तोष्ठौ सूक्तवाकस्तालु शंयुवाकः स्मृतिर्दया क्षान्तिरहिंसा । वेदा महत्विनः । ऋत्विनामप्यत्विजः सर्वेषामुपदेष्टुत्वात् । सामान्यप्रश्नस्य विशेषपर्यवसायित्वाद्विशेषेणोत्तरम् । ग्रीवा कंधरा । धारापोता धाराभिरुपलक्षितः पोता पवमानाध्येता । जिह्वेडा । इडा पात्रविशेषः । इत्यादि । आत्मादीनां यजमानादिसाम्यं स्वातन्त्र्यादिना यथासंभवमूहनीयम् । अत्र पञ्चत्रिंशत्प्रश्नास्तावन्त्येवोत्तराणि । के प्रयाजाः केऽनुयाजा इत्येतयोर्महाभूतानि प्रयाजा भूतान्यनुयाजा इत्युत्तरम् । भूतानि शरीराश्रितप्राणिनः सात्त्विकादयस्त्रिविधाः स्मृतिर्दया क्षान्तिरहिंसेति । पत्नीसंयाजा(?) ओंकारो यूप आशा रैशना मनो रथः कामः पशुः केशा दर्भा बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींष्यहिंसा इष्टयस्त्यागो दक्षिणा अवभृथं मरणात् ॥ १ ख. ग. शंयोर्वाकः । २ ग. रसना । ३ ग. रसना । ४ क. मरणम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy