SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राणाग्निहोत्रोपनिषत् । जठराग्नेः प्रार्थनाऽन्तरित्यपां प्रार्थनाऽऽपो ज्योतिरित्यादि । हे आपो यूयं ज्योतिरादिरूपाः स्थ ताभ्य ॐ नम इत्यन्वयः । आपः पुनन्तु पृथिवीं पृथ्वी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभोज्यं वा यद्वा दुश्चरितं मम । सर्व पुनन्तु तं ह्यापो असतां च प्रतिग्रहम् । आपः पुनन्त्विति । तासामेवापरो मन्त्रः । पूता सती मां पुनातु । ब्रह्मणस्पतिर्ब्रह्मणस्पतयः । पृथिवीं पुनन्तु । ब्रह्मपूता ब्रह्मभिाह्मणेः पवित्रिता पृथिवी मां पुनातु । ममोच्छिष्टादि सर्व तमापः पुनन्तु शोधयन्त्वित्यन्वयः । आपोऽमृतमस्यमृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमा शिष्यान्तोऽसि प्राणाय प्रदानाय स्वाहानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति कनिष्ठिकयाऽङ्गुल्याऽङ्गुष्ठेन च प्राणे जुहोमि । आपोऽमृतमसीति । आप आप्नोतेरसुन्विधेयवचनानुरोधेन वाऽसीत्येकवचनम् । अमा सह हे शिष्य प्रशिष्य। अन्तोऽस्यमितोऽसि भोनितोऽसि । अम गतौ भोजने शब्द।। अनामिकयाऽपाने मध्यमिकया व्याने प्रदेशिन्या समाने सर्वाभिरुदाने तूष्णीमेकामेकऋषौ जुहोति द्वे आहवनीय एका दक्षिणानावेकां गार्हपत्य एकां सर्वप्रायश्चित्तीये ॥१॥ अनामिकयेति । अङ्गुष्ठः सर्वत्रान्वेति । एकऋषावग्नौ तत्राग्निः सूर्य आहवनीये दर्शनाग्नौ मुखस्थे दक्षिणाग्नौ शरीराग्नौ हृदयस्थे गार्हपत्ये कोष्ठाग्नौ नाभिस्थे । सर्वः प्रायश्चित्तीये नाभेरधःस्थिो ॥ १ ॥ अथापिधानमस्यमृताय त्वोपदधामीत्युपस्पृश्य पुनरादाय पुनरुपस्पृशेत्सव्ये पाणावपो गृहीत्वा हृदयमन्वालभ्य जपेत् । अपिधानमाच्छादनम् । अनेन मन्त्रेण द्विराचम्य ततो वामेनोदकं गृहीत्वा दक्षिणेत हृदयमालभ्य स्पृष्ट्वाऽमृतोऽसीत्यन्तं जपेत् । प्राणोऽग्निः परमात्मा पञ्चवायुभिरावृतः। अभयं सर्वभूतेभ्यो न भवेदहं कदाच नेति । अभयामिति । सर्वभूतेभ्योऽभयं भवेत् । अहं कदाच कदाचिदपि न नापि तुः भवे. यमेवेत्यन्वयः । इमे द्वे प्रार्थने । विश्वोऽसि वैश्वानरो विश्वरूपो विश्वं त्वया धार्यते । जायमानं विश्वं तु त्वाहुतयः सर्वा यत्र ब्रह्मा । १. ह. सतश्च प्र। २ छ.ग्रहातू । आ'। ३. ग. मृतत्वायोप। ४ ग. व्येनापो । ५ ग.पो वै मि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy