SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०६ नारायणविरचितदीपिकासमेता बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः । बृहस्पतिप्रसूता इति । वृहस्पतिना प्रसूता दर्शितवीर्याः । अनेकरूपत्वमेवोच्यते--- www.kobatirth.org याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः || I याः फलिनीरिति । चकारेण वृक्षत्रतत्यादिरूपा उच्यन्ते । जीवलां नवारिषां मा ते बध्नाम्योषधिम् । या त आयुरूपहरादप रक्षांसि चाऽऽतयात् ॥ जीवलां जीवं लात्यादत्ते सा विषौषधिरित्यर्थस्ताम् । नवारिषां हर्षाजननीमुद्वेगकारिणीं यथा लाङ्गली गृहोपारे निक्षिप्ता कलहं करोति कुटुम्बिना तादृशीम् । हे ओषधे वनदेवते ते तव त्वत्संबधिनीं त्वत्स्वामिकां तां मा बध्नामि न स्वीयां करोमि 1 उपहरादुपहरेद्रक्षांसि चापाऽऽतयादागतानि कुर्यात् । तां ते मा बध्नामीत्यन्वयः । अन्नपतेऽन्नस्य नो धेानमीवस्य शुष्मिणः । प्रदातारं तारिष ऊर्जे नो धेहि द्विपदे चतुष्पदे || विराद्धं सिद्धिविरोध | विराद्धिमेवाssह अनमीवस्य न अमीवं पापं यस्य । शुष्मिणस्तेजस्विनः । शुष्मं तेजोर्कयोरुक्तमिति विश्वः । प्रप्रदातारं प्रसमुपोदः पादपूरण इति प्रशब्दस्य द्विर्भाव । तारिषस्तारयोर्ध्वलोकं नय । ऊर्जमन्नं बलं वा नोऽस्मभ्यं धेहि देहि । डुधाञ् हि धारणे पुष्टौ दान इति बोपदेवः । द्विपदे मनुष्याय । यदन्नम बहुधा विराद्धम् । Acharya Shri Kailashsagarsuri Gyanmandir रुद्रैः प्रजग्धं यदि वा पिशाचैः । सर्वं तदीशानो अभयं कृणोतु शिवमीशानाय स्वाहा । रुद्रैरिति । रुद्रपिशाचादिभ्यो यजमानेनार्पितमित्यर्थः । सर्वं तदन्नमीशानः परमास्माऽभयं भयाजनकं कृणोतु करोतु तदर्थमीशानाय स्वाहा । आहुती ददामीत्यर्थः । अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कारः । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नमः । १ क. ख. घ ङ ब्रहा | For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy