________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः ।
प्राणाग्निहोत्रोपनिषत् ।
नारायणविरचितदीपिकासमेता ।
प्राणाग्निहोत्रोपनिषञ्चतुष्खण्डविराजिता । एकादशी शौनकीये सारभूता हि सर्वतः ॥ १ ॥
ननु विरक्तस्यापि देहस्य स्थितयेऽन्नादनमावश्यकं तच्च मुक्तावनुपयुक्तत्वादनर्थकं स्यादित्याशङ्कयोपासनया सार्थकत्वायाग्निहोत्रोपनिषदारभ्यते
अथातः सर्वोपनिषत्सारं संसारज्ञान
मधीतमन्नसूत्रं शारीरं यज्ञं व्याख्यास्यामः ।
अथात इति । संसारज्ञानं संसारो हेयतया ज्ञायतेऽनेनेति । अधीतं वेदेषु । अन्नसुत्रमन्नमेव सूत्रं साधनं यस्मिन् । शारीरं शरीरभवम् ।
यज्ञप्ररोचनार्थमादौ फलमाह
अस्मिन्नेव पुरुषशरीरे विनाऽप्यग्निहोत्रेण विनाऽपि सांख्ययोगेन संसारविमुक्तिर्भवतीति खेन विधिना, अस्मिन्निति । स्वेन स्वगृह्योक्तेन ।
अन्नं भूमौ निक्षिप्य
अन्नं भूमाविति । न त्वन्तरिक्षे पटादावन्नपात्रमारोप्यमित्यर्थः । तदुक्तम् - " पीठस्योपरि पात्रं यः संस्थाप्याश्नाति ब्राह्मणः । न देवास्तृप्तिमायान्ति दातुर्भवति निष्फलम् " इति ॥ यद्वा व्याहृतिभिर्वलित्रयं भूमौ दत्त्वत्यर्थः ।
ताः स्वरूपेणाऽऽह
या ओषधयः सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्यामनुमश्रयते । या ओषधयः सोमराज्ञीर्वही : शतविचक्षणाः ।
या ओषधय इति । सोमराज्ञीरिति । सोमो राजा यासां ताः सोमराज्य इत्यर्थः । 1 ता नोsस्मानंहसः पापान्मुञ्चन्त्वित्यन्वयः । शतमनेकजातीया विचक्षणा रोगाद्यपनयनज्ञानवत्यस्तयोः कर्मधारयः ।
३९
For Private And Personal