SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिरउपनिषत् । एवमन्तरिक्ष भूमिश्च । यद्वा । अष्टौ दिक्पालपुराणि नवमं ब्रह्मपुरं चेति नव दिवः । अनन्तपुरं तु न धुभागस्तस्याधःस्थत्वात् । नववीथीभेदेनान्तरिक्षाण्यपि नव । सप्तद्वीपाः शुद्धोदात्परे लोकालोकस्य मध्यबाह्यभूमी चेति भूमयोऽपि नव । तेषां स्थाननामादीनि यथा मेरौ मध्ये पूर्वाद्यष्टदिक्षु च ब्रह्मेन्द्रवह्नयादीनां नव पुराणि नव दिवः । तदुक्तं वायवीये "मेरौ नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमनी तथा कृष्णाञ्जनाऽपरा । श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवती च ब्रह्मेन्द्र वह्नयादीनां यथाक्रमम्' इति । नव वीथयो ग्रहाणामारोहणावरोहणादिस्थानभेदेन भवन्ति । तद्यथा वायुपुराणे “सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तम । स्थानं जरद्वं मध्ये तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः” इति । तदेव दक्षिणोत्तरमध्यमार्गत्रयं प्रत्येक वीथीत्रयेण त्रिधा भिद्यते । त्रिभित्रिभिरश्चिन्यादिभिर्नक्षत्रैर्नागवीथी गजवीथ्यैरावती चेत्युत्तरमार्गे वीथीत्रयमार्षभी गोवीथी जरद्गवी चेति वैषुवते मध्यमार्गे वीथीत्रयमजवीथी मृगवीथी वैश्वानरी चेति दक्षिणमार्गे वीथीत्रयं तदप्युक्तं तत्रैव "अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्याद्री मृगशिरो गजवीथ्यभिधीयते ॥ पुप्या श्लेषा तथाऽऽदित्या वीथी चैरावती स्मता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चाऽऽर्ये फाल्गुन्यौ मन्वा चैवाऽऽर्षभी मता। हस्तश्चित्रा तथा वाती गोवीथीति च शब्दिता ।। ज्येष्ठा विशाखाऽनुराधा वीथी जारद्गवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।। पूर्वाषाढोत्तराषाढा साऽजवीथ्यभिशब्दिता । श्रवणं च धनिष्ठा च भार्गी शतभिषक्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते" || याम्या भरणी चाऽऽदित्याऽदितिदेवता पुनर्वसुरमी मृगवीथी । उत्तरायणे मेरुं १ ख. ज. रं न । २ ख. त्रेधा । ३ छ. स्वाति!वी”। ४ छ. मागी। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy