SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८६ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेतासंन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च नादी० परिहताः । सर्वकर्मत्यागेनाऽऽमुष्मिकभोगाशा चित्तविक्षेपकारिणी परिहता। अयमसौ परिग्रहेदित्यन्वयोऽयमस्म्यहमागममितिवत् । ब्रह्माण्डं चेति । ब्रह्माण्डस्यागो नाम तत्प्राप्तिहेतोविराडपासनस्य त्यागः । चकारेण सूत्रात्मप्राप्तिहेतोर्हिरण्यगर्भोपासनस्य तत्त्वज्ञानहेतूनां श्रवणादीनां च समुच्चयः । स्वपुत्रादिहिरण्यगर्भोपासनान्तमैहिकमामुष्मिकं च सर्व प्रैषमन्त्रोच्चारणेन परित्यज्य कौपीनादिकं परिगृह्णीयात् । आच्छादनं चेति । चकारेण पादुकादिपरिग्रहः समुच्चितः । यत्स्मृतिः- "कौपीनयुगुलं वासः कन्थां शीतनिवारिणीम् । पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम्" इति ।। स्वशरीरोपभोगो नाम कौपीनेन लज्जाव्यावृत्तिः । दण्डेन गोसर्पाद्युपद्रवपरिहारः । आच्छादनेन शीतादिपरिहारः । चकारेण पादुकाभ्यामुच्छिष्टदेशास्पादिपरिहारं समुचिनोति । लोकस्योपकारो नाम दण्डादिलिङ्गेनैतदीयमुत्तममाश्रमं परिज्ञाय तदुचितभि-- शंदी०निखिलकर्माणि संध्यावन्दनाग्निहोत्रादीन्। संन्यस्य सम्यग्यथाशास्त्रं पुनरादानशून्यत्वेन परित्यज्य । अयं नानाकार्योपासनफलभूतं शरीरान्तरप्राप्यं वासनासूत्रपटरूपं. मनोमर्कटोद्यानम् । ब्रह्माण्डं च भूम्यादिसप्तावरणवेष्टितं नारिकेलफलाभं भूगोलकम् । चशब्दादेतदन्तर्बहिश्च वर्तमानान्विविधान्मायाविलासान्नियमादीन् । हित्वा न ममैतस्मिञ्शरीरे शरीरान्तरे वा भूयादिति संकल्पेन परित्यज्य । यदाऽऽत्मविविदिषुस्तदा सन्मार्गवविजेनैतत्प्रार्थित उत्तराशाविनिर्गतो यथाजातरूपधर उपदेष्ट्रा चानुज्ञातः । कौपीनं कुत्सितं लोकलज्जाकरं मेदादिकं पीनं पीवरमांस कुपीनं तदाच्छादकं कौपीनं लोकलज्जाकरनिवारकं वस्त्रमित्यर्थः । दण्डं गोसादेर्दशनेन दमनहेतुभूतमेकं वैणवम् । आच्छादनं वस्त्रम् । चशब्दात्पादुके अपि केशकीटास्थ्यादिदूषितभूम्यस्पर्शार्थम् । ननु कौपीनाच्छादनपादुकानां सकृत्स्वीकारेऽदृष्टसिद्धिः स्यादित्यत आह-स्वशरीरोपभोगार्थाय च । स्वस्य परमहंसत्वमानिनः शरीरं नानावर्णोऽवयवो भूतावासस्तस्योपभोगः श्रवणविघ्नकारी लोकलज्जाशीतवातातपकण्टकवेधादिपरिहारकारणेन सेवनमुपभोगस्तदर्थ तत्प्रयोजनं स्वशरीरोपभोगार्थं स्वशरीरोपभोगप्रयोजनाय । नादृष्टाय तत्परिग्रह इत्यर्थः । चशब्दादाश्रमनिर्वाहाय च । ननु यस्य स्वशरीरोपभोगे नेच्छा तस्य कौपीनादिपरिङ्ग होऽदृष्टार्थ एवेत्यत आह-लोकस्य स्वधर्मनिष्ठत्रैवर्णिकजनस्य भिक्षादिदातुरुपकारार्थाय चोपकारो भिक्षादिदानेनादृष्टोत्पादनं श्रवणादिनाऽज्ञानहरणं च स एवार्थ: १क. स. ग. घ. राय। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy