SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८३ परमहंसोपनिषत् । भगवन्तमुपंगत्योवाच ।तं भगवानाह । योऽयं परमहंसमार्गों लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः नादी०माह-योऽयमिति । यः पृष्टः सोऽयं मनसि स्फुरन् । परमकाष्ठां प्राप्तस्य वैराग्यस्यादृष्टचरत्वाद्दुर्लभतरत्वस्यात्यन्ताशक्यत्वमाशङ्कयाऽऽह-न विति । बाहु. ल्यमस्यास्तीति बाहुल्योऽर्शआद्यच् । अयं मार्गोऽतिदुर्लभश्चेन्नाऽऽदर्तव्यः "अतिक्लेशेन ये अर्था अनर्थास्ते मता मम" इति न्यायादित्याशङ्कयाऽऽह-यदीति । ___"मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । ___ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः" || इति न्यायेन यद्येकः कश्चिद्भवति पुरुषधौरेयः । यथा जाबालोपनिषधुक्तम्- "तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मता उन्मत्तवदाचरन्तः" इति । स एव नित्यपूतस्थः । नित्यपूतः परमात्मा तत्र तिष्ठति नित्यपूतस्थः स एव न केक्लयोगी शं०दी०भगवन्तं समग्रधर्मज्ञानवैराग्यैश्वर्ययशःश्रीमन्तम् । उपगत्य ब्रह्मलोकेऽपराजितायां पुरि हिरण्मयप्तभायां संपत्समृद्धायामासीनं चतुराननं समस्तजीवधनं हिरण्यगर्भ समित्पाणिविनयादिसंपन्नो यथाशास्त्रं समीपमागत्योवाचोक्तवान् । तमुक्तविशेषणं नारदं भगवानुक्तविशेषणो हिरण्यगर्भ आहोक्तवान् । योगिनां परमहंसानां कोऽयं मार्ग इति प्रश्नस्य साधुसुसंसेवितः श्रुतिमूल इत्युत्तरमाह-यः प्रसिद्धो वैराग्यसमनन्तरक्षणभावी चतुर्णामाश्रमाणाम् । तव पुत्रानित्यारुण्यादिश्रुतेः । अयं भवता मुमुक्षुत्वादिनाऽऽदिष्टः । परमहंसमार्गः परमहंसानां तुरीयतुरीयाश्रमाणां मार्गः पन्थाः परमहंसमार्गः । लोके महर्लोकादिभुवने जने वा । दुर्लभतरो दुःखेन महता क्लेशेनानेकभवाजितानेकपुण्यपुजैर्लम्यो दुर्लभस्तुरीयाश्रमः । तुरीयतुरीयस्त्वतिशयेन दुर्लभो दुर्लभतर इत्यर्थः । दुर्लभत्वमुपपादयति-न तु बाहुल्यः, न तु बहुलः । यद्ययं सुलभः स्यात्तदाऽधिकोऽप्युपलभ्येत गृहस्थादिवत् । न च बहुलोऽधिक उपलभ्यते ततो दुर्लभतर इत्यर्थः । ननु यदि नैव बहुलस्ततो दुर्लभतरस्तन्नेवं दृष्टो वैपरीत्यादित्यत आह-यद्यको भवति कथंचिद्बहुल उपलभ्यते चेत्तीर्थादौ तत्रापि प्रत्येक देशग्रामं कुलादौ विचारिते सत्येको भवति न त्वनेकः । ननु तथाऽपि वेदाध्ययनादिसंन्यासाच्छूद्रसमानता शङ्कितुं शक्येतात आह—स एव यस्तु शिखायज्ञोपवीतवेदाध्ययनादित्यागी स एव न त्वन्यो यज्ञोपवीतादिमान् । नित्यपूतस्थो नित्यं सर्वदा कालत्रयेऽप्यशेषविशेषशून्यत्वेन पूतं पवित्रं शिखायज्ञोपवीतवेदाध्यनादित्यागशुद्धिकारणं सत्यज्ञानमनन्तमानन्दात्मस्वरूपं यद्ब्रह्म तस्मिन्निदमहमस्मीत्यैक्येनावतिष्ठत इति नित्यपूतस्थो यतस्ततः शिखायज्ञोपवीत १ क. 'मुपागम्योवा" । म. 'मुपागत्यो । २ ख. 'पसमेत्यो। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy