________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२७६
नारायणविरचितदीपिकासमेता -
क्षिप्तानामोषधीनामुतं विषं पातुमवतीर्णत्वादेवमुक्तम् । ते तव लोकस्याक्षेमं व्यनीनशत् । अनेन क्षेमकारित्वमुक्तम् | अलब्धलाभो योगस्तत्कारित्वमप्याह । वातीकार इति । वातिः प्राप्तिः । अप्राप्तं प्राप्तं करोतीति वातीकारः सोऽपि ते तवापूर्वलाभकरो - प्येत्वागच्छतु । योगक्षेमकरोऽभिषेकजले संनिहितो भवत्वित्यर्थः । मन्त्रलिङ्गादभि -
के विनियोगः ।
नमस्ते भव भामाय नमस्ते भव मन्यवे || नमस्ते अस्तु बाहुभ्यामुतोत इषवे नमः ॥
भामः क्रोधः । मन्युस्तत्पूर्वावस्था । उतापि । उतेषवे बाणरूपाय । अस्तवे । अ क्षेपणे तवेन्प्रत्ययस्तुमर्थे । अस्तुं क्षेप्तुमित्यर्थः ।
यामिषं गिरिशन्त हस्ते बिभर्ष्यस्तवे ||
शिवां गिरित्र तां कृणु मा हिंसीः पुरुषान्मम ||
कं क्षेप्तुं गिरिशन्तं श्यति श्यन्गिरेः श्यन्गिरिश्यन्संबन्धसामान्ये षष्ठ्या समासः । तं गिरिशन्तम् । छान्दसो यमलोपः । यद्वा कंशंभ्यां वभयुस्ततुतयसः । शमस्यास्ति शन्तो गिरिणा शन्तः सुखी पर्वतोत्पन्नत्वादिषोः । हे गिरित्र गिरिरक्षक तां शिवां कल्याणी कुरु ।
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो मृड जीवसे ||
1
अच्छा वदामसि । अच्छ निर्मलं वदामः | अच्छशब्दस्य निपातस्य चेति दीर्घः । इदन्तो मसि । इदनर्थको निपातः । अयक्ष्मं नीरोगम् । सुमनाः सुमनस्कम् । असद्भवेत् । लिङथें लेट् । तिप् । इतश्च लोपः परस्मैपदेषु । लेटोऽडाटावित्यट् । शरव्या शरसंघात्री ज्या 'शरो दध्यग्रबाणयोः' इति विश्वः । शरमर्हति यत् । अवशरस्य चेत्यवादेशः । शरुशब्दाद्वा सिद्धम् । शरुरायुधकोपयोः । उगवादिभ्यो यत् । जीवसे जीवितुं मृड मोदय । यद्वा हे मृड तथा तन्वा नोऽस्माञ्जीवसे जीवयसि ।
या ते रुद्र शिवा तनूरघोरा पापकाशिनी । तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशत् ॥ असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहितः । ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो वैषां हेड ईमहे ॥ १ ॥
१ ख. ग. हिंसीत्पुरु' ।
For Private And Personal