SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya Shi Kailashsagar ॐ तत्सद्ब्रह्मणे नमः। नीलरुद्रोपनिषत् । नारायणविरचितदीपिकासमता । नीलरुद्रोपनिषदि षोडश्यां खण्डकत्रयम् ॥ श्रुतिरूपेण तं देवं स्तोत्यपश्यमिति क्रमात् ॥ १ ॥ भस्पर्शयोगमुक्त्वा तत्संप्रदायप्रवर्तकं परमगुरुं योगसिद्धिप्रदं नीलरुद्रं स्तौति ॐ अपश्यं त्वाऽवरोहन्तं दिवितः पृथिवीमवः ।। अपश्यमस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम् ।। दिव उग्रोऽवारुक्षत्मत्यष्ठाद्भूम्यामधि ॥ अपश्यमिति । दिवितो दिवः । पृथिवी भूमिमवोऽवस्तादवरोहन्तं त्वामहमपश्यमिति मन्त्रद्रष्टुर्वचः । अस्यन्तम् । असु क्षेपणे । क्षिपन्तं दुष्टान् । अनेनावतारप्रयोजनमुक्तम् । अयं ब्रह्मणः पुत्रः सनकादिषु सृष्टिमकुर्वत्सु ब्रह्मणः क्रोधादुत्पन्नः कुमारो रुरोद तेनाऽऽश्वास्य रुद्र इति नाम दत्तं तत एकादश स्थानान्येकादश नामान्येकादश पत्नीश्व ददौ तत्सृष्टानां रुद्राणामसंख्याततां दृष्ट्वा तं भयात्तपसे न्ययोजयत्स भुवि तपश्चचारेतीतिहासः । शिखण्डिनम् "शिखण्डो बर्हचूडयोः" इति विश्वः । तयोरन्यतरदस्यास्तीति शिखण्डी तं दिवः सकाशादुनो रुद्रोऽवारुक्षदवतीर्णवान् । प्रत्यष्ठात् । प्रतिष्ठां स्थितिं कृतवान् । भूम्यामधि । अधिरीश्वर इत्यधिः कर्मप्रवचनीयः । यस्मादधिकं यस्य चेश्वरवचनमिति सप्तमी । भूमेरीश्वर इत्यर्थः । जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥ एष एत्यवीरहा रुद्रो जलासभेषजीः ॥ वि तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥ जनासः । आजसेरसुक् । संबोधने चेति प्रथमा । एत्यागच्छति । न वीरहाऽवीरहा सौम्यः । यद्वाऽवीराणि पापानि हन्त्यवीरहा। एत्याऽऽगत्य वीरान्दैत्यान्हन्तीति वा । जल आसः क्षेपो यासां ता जलासाश्च ता. भेषज्यश्च ता एतीत्यन्वयः । जलक्षिप्तानामोषधीनाममङ्गलनाशकत्वं रुद्रसंनिधानादेव । यद्वा समुद्रमथनावसरे समुद्रे १ घ. सुलोहितम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy