________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नादबिन्दूपनिषत् ।
२७१
घोष आज्ञा तत्फला घोषिणी । विद्युन्माली यक्षराजस्त लोकप्रदा विद्युन्माली । पतङ्गी पक्षिणी । आकाशगतिप्रदत्वात् । वायुवेगिनी शीघ्रगतिप्रदा ॥ ८ ॥
पञ्चमी नामधेया च षष्ठी चैन्द्री विधीयते । सप्तमी वैष्णवी नाम शांकरी च तथाऽष्टमी ॥ ९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
नामधेया पितृलोकप्रदत्वात्पितरो हि नामभिरिज्यन्ते । “ यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम्" इत्याद्युक्तेः । ऐन्द्रीन्द्रसायुज्यदत्वात् । वैष्णवी विष्णुलोकप्रदत्वात् । शांकरी शिवलोकप्रदत्वात् ॥ ९ ॥
नवमी महती नाम धुवेति दशमी मता ॥ एकादशी भवेन्मौनी ब्राह्मीति द्वादशी मता ॥ १० ॥
महती महर्लोकप्रदत्वात् । ध्रुवा ध्रुवलोकप्रदत्वात् । मौनी मुनीनां लोकं तपोलोकं ददाति तेन । ब्राह्मी ब्रह्मलोकं ददाति तेन । ततः परं तु फलं नादान्ते न लभ्यते ॥ १०॥ इदानीं तत्तद्धारणासु स्थितान्तःकरणस्य प्राणवियोगे फलविशेषं नामभिः सूचि -
तमाह
प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते ॥
स राजा भारते वर्षे सार्वभौमः प्रजायते || ११ || द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् ॥ विद्याधरस्तृतीयायां गन्धर्वस्तु चतुर्थिकाम् || १२ || पञ्चम्यामथ मात्रायां यदि माणैर्वियुज्यते ॥ ओषितः सह देवत्वं सोमलोके महीयते ।। १३ ॥
यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् || अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ।। १४ ।। नवम्यां च महर्लोकं दशम्यां च ध्रुवं व्रजेत् ॥ एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ १५ ॥ प्रथमायामित्यादिना । चतुर्थिकां प्राप्य समुत्क्रान्त इत्यन्वयः । देवत्वं प्राप्य
सह देवैरोषित आ उषितः सन् । ब्रह्म ब्रह्मलोकं शाश्वतं ब्राह्मायुः परिमितम् ॥ ११॥
॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥
पञ्चमाक्षरस्य नादनामकस्य फलमाह
P
अतः परतरं शुद्धं व्यापकं निष्कलं शिवम् || सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ।। १६ ।।
१ ग. स्मृता । २ ग. निर्मलं ।
For Private And Personal