________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७२
नारायणविरचितदीपिका समेता -
अत इति । अतः परतरं परं ब्रह्मेत्यन्वयः । ज्ञेयमिति शेषः । पूर्वोक्तं फलं परं तस्मादिदमुत्कृष्यत इति परतरम् । निष्कलं कला द्वादशमात्रास्तद्विषयातिगं निष्कलम् | यद्वा कलाः षोडश षष्ठप्रश्नोत्तास्तद्रहितम् । यतो ज्योतिषां मनआदीनां चक्षुरादीनां सूर्यादीनां चोदयः " तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । कथमिदं लभ्यते यदा नादे धारणा भवति । किं नादधारणायाः फलं मनोलय एव ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तदुक्तम् - "काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते" इति ॥ १६ ॥
तदेवाऽऽह—
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ॥ अनौपम्यमभावं च योगयुक्तं तदाऽऽदिशेत् ॥ १७ ॥
मनो लीनमिति । ननु मनोलये माध्यमिवच्छून्यमेव तत्त्वं फलं स्यादत आह-आदिशेदिति । यदा मनो लीनं भवेत्तदाऽऽदिशेद्गुरुस्तदैव हि परमोऽधिकारो न तु मनागपि विषयाभिलाषे सति मुख्योऽधिकारः । अथवा तदाऽऽदिशेल्लब्धमिति कथयेन्मध्यस्थः । मध्ये मनोविशेषणानि । उपमैवौपम्यं स्वार्थे ष्यञ् । नौपम्यं यस्य मनसोऽनौपम्यम् । न भावयति चिन्तयत्यभावम् । जीवपरमात्मनोरैक्यं योगस्तद्युक्तम् । द्वितीयव्याख्यायां योगश्चि तवृत्तिनिरोधस्तद्युक्तम् । अथवा योगयुक्तस्य मनसः किं लक्षणमत आह-मन इति । यदा मनोलीनं भवेत्तथाऽनौपम्यमभावं च तदा योगयुक्तं प्राप्तयोगामित्यादिशेत्कथयेदित्यर्थः ॥ १७ ॥
तद्भक्तस्तन्मनासक्तः शनैर्मुश्चेत्कलेवरम् ॥ सुस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ १८ ॥
तस्मिन्भक्तिर्यस्य तद्भक्तः । भक्त्या लभ्यस्त्वनन्ययेत्युक्तत्वात् । तस्मिन्मनो यस्य स तन्मनाः । असक्तो विषयेषु । छान्दसः संधिः । अथवा तन्मनाः सक्त इति पठनीयम् । सक्त आसक्तस्तत्रैव । योगचारेण योगमार्गेण सुस्थितः स्वस्थीभूतः ॥ १८ ॥ ततो विलीनपाशोऽसौ विमलः केवलः प्रभुः ॥
I
तेनैव ब्रह्मभावेन परमानन्दमश्रुते परमानन्दमश्रुत इति ॥ १९ ॥ इत्यथर्ववेदान्तर्गता नादबिन्दूपनिषत्समाप्ता || १७ ||
पाशाः कर्माणि । केवलः प्रभुर्जीवभावरहितः । द्विरुक्तिः समाप्त्यर्था । अत्र प्रणवस्य नादविन्दोर्निरूपणादकारादित्रये सत्यपि प्राधान्यान्नादबिन्दूपनिषत्संज्ञा ॥ १९ ॥
१ ङ. र्वोक्तफ' ।
For Private And Personal