________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताया सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रेशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम्। या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसंनिभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पद्मनामकं तदेतमुपासीत मुनयोऽवाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति' । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं ये नु
पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् । यस्मिन्क्रोधं या वाच्या खं पूर्वानं प्रचरति । शुद्धेति । विशुद्धसत्त्वात्मकत्वात् । पद्मनामकं सहस्रदलं पद्ममिति प्रसिद्धम् । तदुक्तम्- "मूर्ध्नि प्रतिष्ठितं पद्मं सहस्रदलसंयुतम्" इति । षोडशदलं वा तदिति तत्तस्मात्कारणादेतत्पद्मनामकं पदं चतुर्थमात्राद्वारोपासीत। तस्य पद्मान्तराद्वैलक्षण्यमाह । मुनयोऽवाग्वदन्तीति । अवागधोमुखम् । यच्छृतिः'अवाङ्मुखश्चमस उर्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्' इति । याज्ञवल्क्योऽपि "पोडशच्छदसंयुक्तशिरःपद्मादधोमुखात् । निर्गतामृतधाराभिः” इति विशेषान्तरमाह । न तस्य ग्रहणमिति । गृह्यतेऽनेनेति ग्रहणं नालं तत्तस्य नास्त्यधोमुखम्य तस्य मोपरि नालादर्शनात् । एतद्भित्त्वा ये यान्ति तेषां गतिमाह । अयं पन्था ओंकारोपासनालक्षणः । येनोत्तरेण पथा देवा गच्छन्ति न पितरो ज्ञानरहितकर्मोपासका न गच्छन्ति । येन पितर इति पाठे ये पितरस्त उत्तरेण पथा न गच्छन्तीत्यर्थः । नेष्टापूर्तमात्रकारिणां ज्ञानरहितानामुत्तरेण पथा गतिरस्ति । अथवा पितरः पितृमार्गाधिपाः कव्यवाहनादयस्तेषां हि ज्ञानित्वादुत्तरमार्ग एव । तत्रापि विशेषः केचित्परमेव यान्ति । यदक्तं- "ब्रह्मणा सह मुच्यन्ते' इति । केचिदपरं ब्रह्मलोकादि येषामसति ज्ञानपरिपाके कल्पान्तरे पुनर्जन्म भवति । केचित्परायणं वैकुण्ठकैलासादि । तत्र के परमेव यान्तीत्यपेक्षायामाह । वालाग्रमात्रमिति । दुर्लक्षत्वेन सूक्ष्मत्वोक्तिः । हृदयस्य मध्ये दहरे विश्वं जाग्रदभिमानिनं देवं द्योतनात्मकं जातरूपं सुवर्णवर्णं जातं रूपं जगद्यस्मादिति वा । वरेण्यं वरणीयम् । आत्मस्थं बुद्धिप्रकाशकम् । शान्तिमुक्तिः । इतरेषां तदनभिज्ञानाम् । इतरेषामप्राप्तेहेतुं त्याजयितुमाह । यस्मिन्निति । यस्मिन्निति विषयनिर्देशः । क्रोधविषयं क्रोधं च हित्वा विस्मृत्येत्यर्थः । या च तृष्णा सविषयां तां तृष्णां च हित्वा । हेतुजालस्य विकल्पराशेर्मूलभूतां क्षमां भूमिमविवेकदृष्टिं च
१ च. ति । बाला।
-
-
For Private And Personal