________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् ।
प्रत्यङ्जनास्तिष्ठति संकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनिमधितिष्ठत्येको येनेदं संचरति विचरति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेन पशवोऽनुनामयन्तं मृत्युपाशान् । तदेतेनाऽऽत्मन्नेतेनार्ध चतुर्थमात्रेण शान्ति संसृजति पाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्राह्मं पदम् ।
१५
तत्तु लीलामात्रं द्वितीय चेतनाभावादेको द्रष्टेतिश्रुतेः । संचुको चेति । अन्तकाले प्रलयकाले संकोचं कृतवान् । संसृज्य व्याप्य । ननु बहवः शरीरिणश्चेतना दृश्यन्त एकत्वं त्वीश्वरापेक्षमेवेत्यत आह । यो योनिं योनिमधितिष्ठत्येक इति । जीवोऽपि सर्वे जीवा व्युच्चरन्तीति श्रुतेर्विस्फुलिङ्ग इव ततोऽभिन्न एवेति भावः । ज्ञानशक्तिवत्क्रियाशक्तिरप्येकत्रैवास्तीत्याह । संचरतीति । संचरति प्रविशति विचरति नाना गच्छति च येन शक्तिमतेत्यर्थः । सर्वगुणैः संपन्नः स एव सेव्य इत्याह । तमिति । वरदं शंकरादीनामप्युपास्यं देवं स्वतो द्रष्टारमीड्यं स्तुत्यं वेदादिना निचाय्य नितरां सर्वभावेन पूजयित्वमामीश्वरस्थामेवात्यन्तं शान्ति कैवाल्याख्यामेति । तत्प्राप्त्यन्तरङ्गोपायमाह । क्षमामिति । हेतुजालस्य हेतुवादकल्पनासमूहस्य मूलं कारणभूतां क्षमां भूमिमविवेकदृष्टिलक्षणां हित्वा त्यक्त्वा बुद्ध्याऽर्पणधिया संचितं स्वीकृतं वस्तु रुद्रे स्थापयित्वा समर्प्य “तत्कुरुष्व मदर्पणम्" इत्युक्तत्वात् । रुद्रमेवैकत्वमेकभावमेकरसमेतीत्यनुषङ्गः । आहुरिति । आहुरार्या इत्यर्थः । कीदृशं रुद्रम् । शाश्वतं सर्वकालव्यापिनम् । पुराणं पुराऽपि न कदाचिज्जीर्णम् । इषमन्नमूर्जेन बलेन सह । पशवः । द्वितीयार्थे प्रथमा । पशूननुनामयन्तं तदधीनीकुर्वन्तं भक्तेभ्योऽर्पयन्तमिति यावत् । मृत्युपाशान्नामयन्तं न्यक्कुर्वन्तं तेभ्यो मोचयन्तमिति यावत् । भुक्तिमुक्तिप्रदमित्यर्थः । इदानीं प्रणवस्य मात्राभेदेन ध्यानभेदस्य फलानि वक्तुं प्रथमं प्राधान्याच्चतुर्मात्रस्थ फलमाह । तदेतेनाऽऽत्मन्निति । तत्तस्मात्पूर्वोक्तप्रकारादेतेन प्रणवेनाऽऽत्मन्नात्मन्येतेनाऽऽहतेनाऽऽगतेनाऽऽत्मप्रतिपादकेनार्घा चतुर्थी मात्रा यस्य तेनोंकारेण शान्ति संसृजतीश्वरः । तथा पाशविमोक्षणं शान्तिद्वारा कर्मपाशहानिं करोति । प्रत्येकं मात्राणां फलमाह । या सेति । प्रथमाsकाररूपा अर्धचतुर्थी मात्रा चतुर्थ्यरूपा मात्रेत्यर्थः । सर्वदेवत्या ब्रह्मविष्णुरुद्रदेवत्याऽव्यक्तीभूता वर्णरूपेणानि -
For Private And Personal
१ ख. “मैकं त्व ं । २ क. च. 'हुः । रुद्रो हि शा' । ३ छ. 'ति । सर्व सं' । ४ छ. ज. वेदादीनां । ५ ख. ख. ज. 'कमेकभा' । ६ छ. 'स्य च फ ।